अध्यायः 151
यौवराज्ये युधिष्ठिरस्याभिषेकः ॥ 1 ॥ भीमसेनस्य बलरामाद्गदायुद्धशिक्षणम् ॥ 2 ॥ द्रोणेनार्जुनस्य ब्रह्मशिरोस्त्रविषये नियमकथनम् ॥ 3 ॥ भीमार्जुनदिग्विजयेन धृतराष्ट्रचिन्ता ॥ 4 ॥
वैशम्पायन उवाच 001
'धृतराष्ट्रस्तु राजेन्द्र यदा कौरवनन्दनम् । 001a
युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे ॥ 001c
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः । 002a
ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा ॥ 002c
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव । 003a
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः ॥ 003c
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः । 004a
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः ॥ 004c
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः । 005a
सङ्कर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः ॥ 005c
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले । 006a
पराक्रमेण सम्पन्नो भ्रातॄणामचरद्वशे ॥ 006c
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा । 007a
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित् ॥ 007c
ऋजुवक्त्रविशालानां प्रयोक्ता फाल्गुनोऽभवत् । 008a
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते ॥ 008c
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः । 009a
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि ॥ 009c
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा । 010a
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत ॥ 010c
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः । 011a
तपसा यन्मया प्राप्तममोघमशनिप्रभम् ॥ 011c
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि । 012a
ददता गुरुणा चोक्तं न मनुष्येष्विदं त्वया ॥ 012c
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे । 013a
यद्यदन्तर्हितं भूतं किञ्चिद्युद्ध्येत्त्वया सह ॥ 013c
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे । 014a
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम् ॥ 014c
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशाम्पते । 015a
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः ॥ 015c
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः । 016a
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ ॥ 016c
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः । 017a
उपसङ्गृह्य चरणावुपतस्थे विनीतवत् ॥ 017c
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम् । 018a
यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित् ॥ 018c
सदृशं कारये नैव सर्वप्रहरणे युधि । 019a
तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते ॥ 019c
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः । 020a
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे ॥ 020c
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः । 021a
कृष्णः कमलपत्राक्षः कंसकालियसूदनः ॥ 021c
स जेता सर्वलोकानां सर्वप्रहरणायुधः । 022a
नैतावता ते पार्थाहं भवाम्यनृतवागिह ॥ 022c
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम् । 023a
तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा ॥ 023c
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे । 024a
स एव कर्ता भोक्ता च संहर्ता च जगन्मयम् ॥ 024c
स एव भूतं भव्यं च भवच्च पुरुषः परः । 025a
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ 025c
प्रादुर्भवति योगात्मा पालनार्थं स लीलया । 026a
तत्तुल्यो हि न जायेत न जातो न जनिष्यते ॥ 026c
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता । 027a
को हि तं जेतुमीहेत जानन्नात्महितं नरः ॥ 027c
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः । 028a
स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम् ॥ 028c
न तेन भवतो युद्धं भविता नर्मतोऽपि वा । 029a
अपिचार्थे तव पुरा शक्रेण किल चोदितः ॥ 029c
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात् । 030a
ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः ॥ 030c
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान् । 031a
भुवो भारापहरणे साहाय्यं ते करिष्यति ॥ 031c
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो । 032a
इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन ॥ 032c
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः । 033a
जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः ॥ 033c
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम् । 034a
पालयामि त्वदंशं तं सर्वलोकमहाभुजम् ॥ 034c
आवयोः सख्यसदृशं न च लोके भविष्यति । 035a
यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि ॥ 035c
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये । 036a
इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः ॥ 036c
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान् । 037a
न चेह भविता लोके तमेव शरणं व्रज ॥ 037c
शरण्यः सर्वभूतानां देवदेवो जनार्दनः ॥ 038a
वैशम्पायन उवाच 039
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः । 039a
उपसङ्गृह्य चरणौ युधिष्ठिरवशोऽभवत् ॥ 039c
स्वभावादगमच्छब्दो महीं सागरमेखलाम् । 040a
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः ॥ 040c
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः । 041a
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥ 041c
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा । 042a
'अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि ।' 042c
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे ॥ 042e
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः । 043a
चित्रयोधी समाख्यातो बभूवातिरथोदितः ॥ 043c
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे । 044a
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः ॥ 044c
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान् । 045a
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः ॥ 045c
अतीव बलसम्पन्नः सदा मानि कुरून्प्रति । 046a
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता ॥ 046c
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम् । 047a
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः ॥ 047c
भीमसेनसहायश्च रथानामयुतं च सः । 048a
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत् ॥ 048c
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम् । 049a
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः ॥ 049c
'यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः । 050a
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत ॥ 050c
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह । 051a
भीमसेनो महाबाहुर्बलाद्बलवतां वरः ॥ 051c
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः । 052a
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा ॥ 052c
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान् । 053a
बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः ॥ 053c
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः । 054a
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा ॥ 054c
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम् । 055a
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु । 055c
स चिन्तापरमो राजा न निद्रामलभन्निशि ॥ 055e
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥
1-151-9 गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रं, गुडा स्नुही तद्वत्केशा यस्य ॥ 1-151-11 तीर्थात्पात्रात्पात्रान्तरं गमयितुं सम्प्रदायाविच्छेदार्थमित्यर्थः ॥ 1-151-14 त्वया ग्राहान्मां मोचयता प्राप्तं प्रागेव ॥ 1-151-28 तस्य त्वयीति शेषः । तव तस्मिन्निति शेषः ॥ 1-151-35 तस्य मम च ॥ 1-151-42 विबुधाधिपतेरुद्धवात् ॥ 1-151-43 विनीतः शिक्षितः । अतिरथेषूदितः ख्यातः ॥ 1-151-44 गन्धर्वोपप्लवेऽपि यस्य सौवीरस्य यज्ञो न विप्लुत इत्ययोध्यत्वमुक्तम् ॥ 1-151-46 शस्तो हिंसितः ॥ 1-151-53 बिभियुः बिभ्युः ॥ 1-151-54 ववृधुर्वर्धितवन्तः ॥ एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥