अध्यायः 150
द्रुपदोत्पत्तिः ॥ 1 ॥
जनमेजय उवाच । 001
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि सम्भवम् । 001a
कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् ॥' 001c
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम । 002a
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः ॥ 002c
वैशम्पायन उवाच । 003
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् । 003a
वनं गतो महाराजस्तपस्तेपे सुदारुणम् ॥ 003c
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान् । 004a
तस्य सन्तप्यमानस्य वने मृगगणायुते ॥ 004c
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात् । 005a
स तु राजा महातेजास्तपस्तीव्रं समाददे ॥ 005c
कञ्चित्कालं वायुभक्षो निराहारस्तथैव च । 006a
तथैव तु महाबाहोर्वर्तमानस्य भारत ॥ 006c
कालस्तस्य महाराज यातो वै नृपसत्तम । 007a
ततो नातिचिरात्काले वसन्ते कामदीपने ॥ 007c
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे । 008a
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः ॥ 008c
नियमस्थश्च राजासीत्तदा भरतसत्तम । 009a
ततो नातिचिरात्काले वनं तन्मनुजेश्वर ॥ 009c
सम्प्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता । 010a
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत् ॥ 010c
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम् । 011a
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि ॥ 011c
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम् । 012a
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् ॥ 012c
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः । 013a
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु ॥ 013c
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः । 014a
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत ॥ 014c
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत । 015a
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम ॥ 015c
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः । 016a
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः ॥ 016c
स कुमारस्ततो राजन्द्रोणेन सहितो वने । 017a
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत ॥ 017c
परया स मुदा युक्तो विचचार वने सुखम् । 018a
तस्यैवं वर्तमानस्य वने वनचरैः सह ॥ 018c
कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान् । 019a
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः ॥ 019c
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः । 020a
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम् ॥ 020c
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् । 021a
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च ॥ ॥ 021c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥