अध्यायः 148
गुरुदक्षिणात्वेन जीवतो द्रुपदस्य ग्रहणे द्रोणेनाज्ञापिते तदर्थं तेन सह सर्वशिष्याणां पाञ्चालपुरगमनम् ॥ 1 ॥ द्रुपदग्रहणाय पाण्डववर्जं गतानां कौरवाणां तेन पराजयः ॥ 2 ॥ तदनन्तरं गतेषु पाण्डवेषु अर्जुनेन द्रुपदग्रहणम् ॥ 3 ॥ जीवग्राहं गृहीत्वा भीमार्जुनाभ्यां समर्पितेन द्रुपदेन द्रोणस्य संवादः ॥ 4 ॥ द्रोणेनार्धराज्यापहारेण मुक्तस्य द्रुपदस्य पुत्रोत्पादनार्थं प्रयत्नः ॥ 5 ॥
वैशम्पायन उवाच । 001
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः । 001a
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः ॥ 001c
'अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान् । 002a
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत ॥ 002c
इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम् । 003a
एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन् । 003c
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः ॥' 003e
ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत् । 004a
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥ 004c
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि । 005a
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥ 005c
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । 006a
आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥ 006c
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः । 007a
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥ 007c
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः । 008a
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः ॥ 008c
एते चान्ये च बहवः कुमारा बहुविक्रमाः । 009a
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः ॥ 009c
ततो वरराथारूढाः कुमाराः सादिभिः सह । 010a
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः ॥ 010c
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् । 011a
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात् ॥ 011c
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः । 012a
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते ॥ 012c
ततो रथेन शुभ्रेण समासाद्य तु कौरवान् । 013a
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः ॥ 013c
पूर्वमेव तु सम्मन्त्र्य पार्थो द्रोणमथाऽब्रवीत् । 014a
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम् ॥ 014c
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् । 015a
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि ॥ 015c
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः । 016a
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः ॥ 016c
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः । 017a
शरजालेन महता मोहयन्कौरवीं चमूम् ॥ 017c
तमुद्यतं रथेनैकमाशुकारिणमाहवे । 018a
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः ॥ 018c
द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् । 019a
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः ॥ 019c
प्रावाद्यन्त महाराज पञ्चालानां निवेशने । 020a
सिंहनादश्च सञ्जज्ञे पञ्चालानां महात्मनाम् ॥ 020c
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान् । 021a
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः ॥ 021c
दुःशाशनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् । 022a
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः ॥ 022c
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत । 023a
दुर्योधनं विकर्णं च कर्णं चापि महाबलम् ॥ 023c
नानानृपसुतान्वीरान्सैन्यानि विविधानि च । 024a
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत् ॥ 024c
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा । 025a
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घना इव ॥ 025c
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा । 026a
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत ॥ 026c
द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति । 027a
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् ॥ 027c
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा । 028a
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम् ॥ 028c
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत् । 029a
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह ॥ 029c
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः । 030a
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः ॥ 030c
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् । 031a
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः ॥ 031c
प्रविवेश महासेनां मकरः सागरं यथा । 032a
'चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे ॥' 032c
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः ॥ 033ac
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः । 034a
अहनत्कुञ्जरानीकं गदया कालरूपधृक् ॥ 034c
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु । 035a
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः ॥ 035c
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः । 036a
गजानश्वान्रथांश्चैव पातयामास पाण्डवः ॥ 036c
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः । 037a
गोपाल इव दण्डेन यथा पशुगणान्वने ॥ 037c
चालयन्रथनागांश्च सञ्चचाल वृकोदरः । 038a
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा ॥ 038c
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः । 039a
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ॥ 039c
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन् । 040a
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा ॥ 040c
शरैर्नानाविधैस्तूर्णं पार्थं सञ्छाद्य सर्वशः । 041a
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम् ॥ 041c
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम् । 042a
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः ॥ 042c
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत् । 043a
छादयन्निषुजालेन महता मोहयन्निव ॥ 043c
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् । 044a
नान्तरं ददृशे किञ्चित्कौन्तेयस्य यशस्विनः ॥ 044c
'न दिशो नान्तरिक्षं च तदा नैव च मेदिनी । 045a
अदृश्यत महाराज तत्र किञ्चिन्न सङ्गरे ॥ 045c
पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः । 046a
तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः ॥' 046c
सिंहनादश्च सञ्जज्ञे साधुशब्देन मिश्रितः । 047a
ततः पाञ्चालराजस्तु तथा सत्यजिता सह ॥ 047c
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा । 048a
महता शरवर्षेण पार्थः पाञ्चालमावृणोत् ॥ 048c
ततो हलहलाशब्द आसीत्पाञ्चालके बले । 049a
जिघृक्षति महासिंहे गजानामिव यूथपम् ॥ 049c
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः । 050a
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत् ॥ 050c
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ । 051a
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव ॥ 051c
ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः । 052a
विव्याध बवलद्गाढं तदद्भुतमिवाभवत् ॥ 052c
ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत् । 053a
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः ॥ 053c
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च । 054a
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात् ॥ 054c
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् । 055a
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः ॥ 055c
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि । 056a
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् ॥ 056c
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी । 057a
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ॥ 057c
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे । 058a
स सत्यजितमालेक्य तथा विमुखमाहवे ॥ 058c
वेगेन महता राजन्नभ्यधावत पार्षतम् । 059a
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः ॥ 059c
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत् । 060a
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥ 060c
तत उत्सृज्य तच्चापमाददानः शरावरम् । 061a
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत् ॥ 061c
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत् । 062a
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः ॥ 062c
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव सोऽग्रहीत् । 063a
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश ॥ 063c
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः । 064a
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः ॥ 064c
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा । 065a
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः ॥ 065c
अर्जुन उवाच । 066
सम्बन्धी कुरुवीराणां द्रुपदो राजसत्तमः । 066a
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् ॥ 066c
वैशम्पायन उवाच । 067
भीमसेनस्तदा राजन्नर्जुनेन निवारितः । 067a
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः ॥ 067c
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । 068a
उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ ॥ 068c
भग्नदर्पं हृतधनं तं तथा वशमागतम् । 069a
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥ 069c
विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया । 070a
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥ 070c
एवमुक्त्वा प्रहस्यैनं किञ्चित्स पुनरब्रवीत् । 071a
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम् ॥ 071c
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । 072a
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ ॥ 072c
प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप । 073a
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥ 073c
अराजा किल नो राज्ञः सखा भवितुमर्हति । 074a
अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥ 074c
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । 075a
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥ 075c
द्रुपद उवाच । 076
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । 076a
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥ 076c
वैशम्पायन उवाच । 077
एवमुक्तः स तं द्रोणो मोक्षयामास भारत । 077a
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥ 077c
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । 078a
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥ 078c
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी । 079a
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः ॥ 079c
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् । 080a
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु ॥ 080c
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसञ्चरत् । 081a
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥ 081c
एवं राजन्नहिच्छत्रा पुरीजनपदायुता । 082a
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥ ॥ 082c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥
1-148-61 शरावरं चर्म ॥ 1-148-62 ईषा रथस्य युगचक्रसंलग्नं महादारु ॥ 1-148-70 प्राप्य जीवन्नृप वशामिति ङपाठः ॥ अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥