अध्यायः 147
कर्णपितुरधिरथस्य रङ्गप्रवेशः ॥ 1 ॥ भीमेन कर्णस्याधिक्षेपः ॥ 2 ॥ सर्वेषां रङ्गान्निष्क्रमणम् ॥ 3 ॥
वैशम्पायन उवाच । 001
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । 001a
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥ 001c
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । 002a
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥ 002c
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । 003a
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम् ॥ 003c
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । 004a
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥ 004c
तं दृष्ट्वा सूतपुत्रोऽयमिति सञ्चिन्त्य पाण्डवः । 005a
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥ 005c
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । 006a
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥ 006c
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । 007a
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥ 007c
वैशम्पायन उवाच । 008
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । 008a
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥ 008c
ततो दुर्योधनः कोपादुत्पपात महाबलः । 009a
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥ 009c
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । 010a
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥ 010c
क्षत्रियाणां बलं ज्यष्ठं योक्तव्यं क्षत्रबन्धुना । 011a
शूराणां च नदीनां च प्रभवो दुर्विभावनः ॥ 011c
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । 012a
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥ 012c
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । 013a
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥ 013c
क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः । 014a
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम् ॥ 014c
आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः । 015a
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥ 015c
भवतां च यथा जन्म तदप्यागमितं मया । 016a
सकुण्डलं सकवचं सर्वलक्षणलक्षितम् । 016c
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥ 016e
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । 017a
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥ 017c
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । 018a
रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम् ॥ 018c
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । 019a
साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥ 019c
ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः । 020a
दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥ 020c
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशाम्पते । 021a
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥ 021c
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । 022a
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥ 022c
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । 023a
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत ॥ 023c
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । 024a
भयमर्जुनसञ्जातं क्षिप्रमन्तरधीयत ॥ 024c
स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाऽभ्यवदत्सुयोधनम् । 025a
युधिष्ठिरस्याप्यभवत्तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ ॥ 025c
इति श्रीमन्महाभारते आदिप्रवणि सम्भवपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥
1-147-18 यस्य येन न क्षान्तं न सोढम् ॥ 1-147-25 निश्रमो नितरां श्रमः ॥ सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥