अध्यायः 145

अर्जुनस्य परीक्षा ॥ 1 ॥ कर्णस्य रङ्गप्रवेशः ॥ 2 ॥ वैशम्पायन उवाच । 001
कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे । 001a
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥ 001c
जय हे कुरुराजेति जय हे भीम इत्युत । 002a
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥ 002c
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । 003a
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥ 003c
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । 004a
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥ 004c
वैशम्पायन उवाच । 005
'तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् । 005a
गुरोराज्ञा भीम इति गान्धारे गुरुशासनम् । 005c
अलं शिक्षाकृतं वेगमलं साहसमित्युत ॥' 005e
ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ । 006a
युगान्तानिलसङ्क्षुब्धौ महावेलाविवार्णवौ ॥ 006c
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । 007a
निवार्य वादित्रगणं महामेघनिभस्वनम् ॥ 007c
यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः । 008a
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥ 008c
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । 009a
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥ 009c
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फाल्गुनः । 010a
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥ 010c
ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत् । 011a
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥ 011c
प्रेक्षका ऊचुः । 012
एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः । 012a
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥ 012c
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । 013a
एष शीलवतां चापि शीलज्ञाननिधिः परः ॥ 013c
वैशम्पायन उवाच । 014
इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः । 014a
कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत् ॥ 014c
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । 015a
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥ 015c
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । 016a
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥ 016c
विदुर उवाच । 017
एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः । 017a
अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः ॥ 017c
धृतराष्ट्र उवाच । 018
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । 018a
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥ 018c
वैशम्पायन उवाच । 019
तस्मिन्प्रमुदिते रङ्गे कथञ्चित्प्रत्युपस्थिते । 019a
दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम् ॥ 019c
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । 020a
वायव्येनासृजद्वह्निं पार्जन्येनासृजद्धनान् ॥ 020c
भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन् । 021a
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥ 021c
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । 022a
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम् ॥ 022c
सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः । 023a
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥ 023c
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । 024a
पञ्चबाणानसंसक्तान्सम्मुमोचैकबाणवत् ॥ 024c
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि । 025a
निचखान महावीर्यः सायकानेकविंशतिम् ॥ 025c
इत्येवमादि सुमहत्खड्गे धनुषि चानघ । 026a
गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत् ॥ 026c
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत । 027a
मन्दीभूते समाजे च वादित्रस्य च निःस्वने ॥ 027c
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः । 028a
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः ॥ 028c
दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते । 029a
किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः ॥ 029c
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । 030a
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥ 030c
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ । 031a
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥ 031c
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् । 032a
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥ 032c
स तैस्तदा भ्रातृभिरुद्यतायुधैर्गदाग्रपाणिः समवस्थितैर्वृतः । 033a
बभौ यथा दानवसङ्क्षये पुरा पुनन्दरो देवगणैः समावृतः ॥ ॥ 033c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥

1-145-4 कृतयोग्यौ सुशिक्षितौ ॥ 1-145-10 तूणकार्मुककवचानां तत्प्रभाजालस्यार्जुनस्य च क्रमादर्केन्द्रायुधतडित्सन्ध्यातोयदैरुपमा ॥ 1-145-11 समुत्पिञ्जलक उत्फुल्लता ॥ 1-145-14 अस्रैः प्रेमाश्रुभिः ॥ 1-145-23 सुकुमारं पूर्णघटकुक्कुटाण्डादीनि लक्ष्याण्यविचाल्याविध्यत् । सूक्ष्मं गुञ्जादि लक्ष्यं, गुरु घनावयवं च सोऽविध्यत् ॥ 1-145-25 भूताश्वेभवराहाणां सिंहर्क्षकपिसम्मुखान् । बाणान्सप्तासमायुक्तान्स मुमोचैकबाणवत् । इति घपाठः । गव्ये गोसम्बन्धिनि ॥ 1-145-31 सावित्रेण हस्तनक्षत्रेण ॥ 1-145-33 गदा अग्रं आलम्बनं यस्य तादृशः पाणिर्यस्य स गादाग्रपाणिः ॥ पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥