अध्यायः 144
कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्माणम् ॥ 1 ॥ शिक्षादर्शनार्थं भीष्मादीनां प्रेक्षागारप्रवेशः ॥ 2 ॥ युधिष्ठिरादीनां परीक्षा ॥ 3 ॥ भीमदुर्योधनयोः गदायुद्धपरीक्षा ॥ 4 ॥
वैशम्पायन उवाच । 001
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत । 001
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥ 001
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः । 002
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च ॥ 002
राजन्सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम । 003
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥ 003
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना । 004
धृतराष्ट्र उवाच । 004
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥ 004
यदानुमन्यसे कालं यस्मिन्देशे यथायथा । 005
तथातथा विधानाय स्वयमाज्ञापयस्व माम् ॥ 005
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम् । 006
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥ 006
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा । 007
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥ 007
ततो राजानमामन्त्र्य विदुरानुमतोपि हि । 008
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥ 008
समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् । 009
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते ॥ 009
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ । 010
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥ 010
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः । 011
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ ॥ 011
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः । 012
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥ 012
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । 013
'सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा ।' 013
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥ 013
'बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च । 014
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः ॥ 014
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः ॥' 015
मुक्ताजालपरिक्षिप्तं वैदूर्यमणिशोभितम् । 016
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥ 016
गान्धारी च महाभागा कुन्ती च जयतां वर । 017
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः ॥ 017
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा । 018
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् ॥ 018
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम् । 019
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह ॥ 019
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । 020
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥ 020
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । 021
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः ॥ 021
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । 022
नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥ 022
व्यासस्यानुमते चक्रे बलिं बलवतां वरः । 023
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम् ॥ 023
'सुवर्णमणिरत्नानि वस्त्राणि विविधानि च । 024
प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च ॥' 024
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम् । 025
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥ 025
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः । 026
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥ 026
'रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः । 027
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च ॥ 027
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः । 028
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान् ॥ 028
रक्तचन्दनसम्मिश्रैः स्वयमर्चन्ति कौरवाः । 029
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः ॥ 029
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः । 030
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः ॥ 030
धनूंषि पूर्व सङ्गृह्य तप्तकाञ्चनभूषिताः । 031
सज्यानि विविधाकाराः शरैः सन्धाय कौरवाः ॥ 031
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥' 032
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः । 033
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥ 033
'केषाञ्चित्तत्र माल्येषु शरा निपतिता नृप । 034
केषाञ्चित्पुष्पमुकुटे निपतन्ति स्म सायकाः ॥ 034
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः । 035
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च ॥' 035
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । 036
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः ॥ 036
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः । 037
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥ 037
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । 038
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥ 038
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः । 039
विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत ॥ 039
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । 040
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥ 040
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । 041
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥ 041
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । 042
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः ॥ 042
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । 043
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥ 043
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । 044
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ ॥ 044
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । 045
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ ॥ 045
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः । 046
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ ॥ 046
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥
1-144-19 दर्शनेप्सुः जन इति शेषः ॥ 1-144-22 अंशुमान् चन्द्रः ॥ 1-144-38 गन्धर्वनगराकारमद्भुतरूपम् ॥ 1-144-43 संहृष्टौ परस्परं जेतुं सकामौ ॥ 1-144-44 बृंहन्तौ शब्दं कुर्वाणौ । वासिता हस्तिनी ॥ 1-144-45 मण्डलगताबलातचक्रवद्भ्राम्यमाणगदापरिवेषान्तर्गतौ ॥ 1-144-46 पाण्डवारणिः कुन्ती ॥ चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥