अध्यायः 140
कृपद्रोणाश्वत्थामाचार्याणामुत्पत्तिः ॥ 1 ॥ द्रोणाचार्यस्य परशुरामादस्त्रलाभः ॥ 2 ॥
जनमेजय उवाच । 001
कृपस्यापि मम ब्रह्मन्सम्भवं वक्तुमर्हसि । 001a
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान् ॥ 001c
वैशम्पायन उवाच । 002
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः । 002a
पुत्रः किल महाराज जातः सहशरैर्विभो ॥ 002c
न तस्य वेदाध्ययने तथा बुद्धिरजायत । 003a
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥ 003c
अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः । 004a
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥ 004c
धनुर्वेदपरत्वाच्च तपसा विपुलेन च । 005a
भृशं सन्तापयामास देवराजं स गौतमः ॥ 005c
ततो जालवतीं नाम देवकन्यां सुरेश्वरः । 006a
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥ 006c
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः । 007a
धनुर्बाणधरं बाला लोभयामास गौतमम् ॥ 007c
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । 008a
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत् ॥ 008c
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि । 009a
वेपथुश्चास्य सहसा शरीरे समजायत ॥ 009c
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात् । 010a
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥ 010c
यस्तस्य सहसा राजन्विकारः समदृश्यत । 011a
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत ॥ 011c
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च । 012a
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः ॥ 012c
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च । 013a
शरस्तम्बे च पतितं द्विधा तदभवन्नृप ॥ 013c
तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः । 014a
'महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः ॥' 014c
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया ॥ 014e
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत । 015a
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ॥ 015c
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह । 016a
स राज्ञे दर्शयामास मिथुनं सशरं धनुः ॥ 016c
स तदादाय मिथुनं राजा च कृपयान्वितः । 017a
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥ 017c
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् । 018a
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत् ॥ 018c
कृपया यन्मया बालाविमौ संवर्धिताविति । 019a
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः । 019c
'तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत् ॥' 019e
पितापि गौतमस्तत्र तपसा तावविन्दत । 020a
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥ 020c
'कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत् ।' 021a
चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च ॥ 021c
निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता । 022a
सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥ 022c
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन् । 023a
पौत्रान्परिसमाधाय कृपमाराधयत्तदा ॥ 023c
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । 024a
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः ॥ 024c
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः । 025a
'कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः ।' 025c
वैशम्पायन उवाच । 025
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया ॥ 025e
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसम्मतान् । 026a
नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः ॥ 026c
नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान् । 027a
इति सञ्चिन्त्य गाङ्गेयस्तदा भरतसत्तमः ॥ 027c
द्रोणाय वेदविदुषे भारद्वाजाय धमते । 028a
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ ॥ 028c
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना । 029a
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः ॥ 029c
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः । 030a
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः ॥ 030c
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः । 031a
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः ॥ 031c
जनमेजय उवाच । 032
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान् । 032a
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान् ॥ 032c
कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः । 033a
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय ॥ 033c
वैशम्पायन उवाच । 034
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः । 034a
भरद्वाज इति ख्यातः सततं संशितव्रतः ॥ 034c
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । 035a
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा ॥ 035c
ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः । 036a
रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ॥ 036c
तस्या वायुर्नदीतीर वसनं पर्यवर्तत । 037a
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ 037c
तत्र संसक्तमनसो भरद्वाजस्य धीमतः । 038a
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ 038c
ततः समभवद्द्रोणः कलशे तस्य धीमतः । 039a
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ 039c
अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः । 040a
अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः ॥ 040c
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । 041a
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः ॥ 041c
'कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके । 042a
अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम ।' 042c
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥ 042e
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । 043a
तस्यापि द्रुपदो नाम तथा समभवत्सुतः ॥ 043c
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः । 044a
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ 044c
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । 045a
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥ 045c
भरद्वाजोऽपि भगवानारुरोह दिवं तदा । 046a
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः ॥ 046c
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः । 047a
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥ 047c
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत । 048a
अग्निहोत्रे च धर्मे च दमे च सतत रताम् ॥ 048c
अलभद्गौतमी पुत्रमश्वत्थामानमेव च । 049a
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ॥ 049c
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् । 050a
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् ॥ 050c
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति । 051a
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ॥ 051c
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् । 052a
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् ॥ 052c
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् । 053a
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥ 053c
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह । 054a
श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च ॥ 054c
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः । 055a
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम् ॥ 055c
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः । 056a
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम् ॥ 056c
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम् । 057a
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले ॥ 057c
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् । 058a
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा ॥ 058c
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम् । 059a
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम् ॥ 059c
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम । 060a
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः ॥ 060c
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे । 061a
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः ॥ 061c
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु । 062a
अहं धनमनन्तं हि प्रार्थये विपुलव्रत ॥ 062c
राम उवाच । 063
हिरण्यं मम यच्चान्यद्वसु किञ्चिदिह स्थितम् । 063a
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन ॥ 063c
तथैवेयं धरा देवी सागरान्ता सपत्तना । 064a
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥ 064c
शरीरमात्रमेवाद्य ममेदमवशेषितम् । 065a
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥ 065c
अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः । 066a
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥ 066c
द्रोण उवाच । 067
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । 067a
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥ 067c
'एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम ।' 068a
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । 068c
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥ 068e
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः । 069a
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ ॥ 069c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥
1-140-2 गौतमो गौत्रतः ॥ 1-140-10 समर्थनात्सामर्थ्यात् ॥ 1-140-18 प्रातिपेयः प्रतीपपुत्रः ॥ 1-140-19 संवर्धिताविति आलोच्येति शेषः ॥ 1-140-25 विनयेप्सया शिक्षेच्छया ॥ 1-140-27 अदेवसत्वः नास्ति देवस्येव सत्वं सामर्थ्यं यस्य सः ॥ 1-140-38 द्रोणे द्रोणकलशाख्ये यज्ञियपात्रविशेषे ॥ 1-140-50 स्थामशब्दः सकारस्य तत्कारादेशेऽश्वत्थामेति ॥ चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥