अध्यायः 139
भीममनागतं दृष्ट्वा खिन्नायाः कुन्त्या विदुरेण संवादः ॥ 1 ॥ रसपानेन नागायुतबलवता भीमेन हस्तिनापुरप्रत्यागमनम् ॥ 2 ॥ भीष्मेण धनुर्वेदशिक्षणार्थं कुमाराणां कृपाय निवेदनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
'दुर्योधनस्तु पापात्मा भीममाशीविषहृदे । 001a
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥ 001c
प्रभातायां रजन्यां च प्रविवेश पुरं ततः । 002a
ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥' 002c
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि । 003a
स्वेनानुमानेन परं साधुं समनुपश्यति ॥ 003c
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः । 004a
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः ॥ 004c
क्व गतो भविता मातर्नेह पश्यामि तं शुभे । 005a
उद्यानानि वनं चैव विचितानि समन्ततः ॥ 005c
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् । 006a
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः ॥ 006c
आगताः स्म महाभागे व्याकुलेनान्तरात्मना । 007a
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु ॥ 007c
कथयस्व महाबाहुं भीमसेनं यशस्विनि । 008a
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ॥ 008c
यतः प्रसुप्तं मन्येऽहं भीमं नेति हतस्तु सः । 009a
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता ॥ 009c
हाहेति कृत्वा सम्भ्रान्ता प्रत्युवाच युधिष्ठिरम् । 010a
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति ॥ 010c
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह । 011a
द्रुतं गत्वा पुरोद्यानं विचिन्वन्ति स्म पाण्डवाः ॥ 011c
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन् । 012a
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥ 012c
आगताः स्वगृहं भूय इदमूचुः पृथां तदा । 013a
न दृश्यते महाबाहुरम्ब भीमो वने चितः ॥ 013c
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा । 014a
वैशम्पायन उवाच । 014
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ॥ 014c
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते ॥ 015ac
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह । 016a
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह ॥ 016c
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः । 017a
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः ॥ 017c
निहन्यादपि तं वीरं जातमन्युः सुयोधनः । 018a
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च ॥ 018c
विदुर उवाच । 019
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु । 019a
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव ॥ 019c
दीर्घायुषस्तव सुता यथोवाच महामुनिः । 020a
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति ॥ 020c
वैशम्पायन उवाच । 021
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् । 021a
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे ॥ 021c
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः । 022a
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥ 022c
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः । 023a
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् ॥ 023c
यत्ते पीतो महाबाहो रसोऽयं वीर्यसम्भृतः । 024a
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि ॥ 024c
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः । 025a
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव ॥ 025c
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः । 026a
ततो नागस्य भवने कृतकौतुकमङ्गलः ॥ 026c
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः । 027a
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः ॥ 027c
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः । 028a
दिव्याभरणसञ्छन्नो नागानामन्त्र्य पाण्डवाः ॥ 028c
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः । 029a
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः ॥ 029c
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः । 030a
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः ॥ 030c
तत उत्थाय कौन्तेयो भीमसेनो महाबलः । 031a
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा ॥ 031c
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च । 032a
कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः ॥ 032c
तैश्चापि सम्परिष्वक्तः सह मात्रा नरर्षभैः । 033a
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् ॥ 033c
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् । 034a
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः ॥ 034c
नागलोके च यद्वृत्तं गुणदोषमशेषतः । 035a
तच्च सर्वमशेषेण कथयामास पाण्डवः ॥ 035c
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् । 036a
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथञ्चन ॥ 036c
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः । 037a
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः ॥ 037c
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा । 038a
यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत् ॥ 038c
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे । 039a
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥ 039c
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् । 040a
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥ 040c
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान् । 041a
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत् ॥ 041c
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम् । 042a
'राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः ।' 042c
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते ॥ ॥ 042e
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥
1-139-8 भावश्चित्तं न शुध्यते जीवतीति न मनुते ॥ 1-139-19 प्रत्यादिष्टः कुतो भीमं हतवानसीत्युपालब्धः ॥ 1-139-41 तान्कुरुबालकान् न्यवेदयत् ॥ ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥