अध्यायः 138

पुनर्भीमाय विषमिश्रभक्ष्यदानम् ॥ 1 ॥ शूलकीलितायां शमाणकोट्यां पुनर्भीमसेनस्य पातनम् ॥ 2 ॥ पाताललोकं प्राप्तस्य भीमस्य वासुकिदत्तरसपानम् ॥ 3 ॥ 'वैशम्पायन उवाच । 001
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः । 001a
प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः ॥ 001c
स्पर्धते चापि सततमस्मानेव वृकोदरः । 002a
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे ॥ 002c
ततो जलविहारार्थं कारयामास भारत । 003a
प्रमाणकोट्यामुद्देशे स्थलं किञ्चिदुपेत्य ह ॥' 003c
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च । 004a
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि ॥ 004c
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा । 005a
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः ॥ 005c
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् । 006a
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥ 006c
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः । 007a
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥ 007c
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह । 008a
उद्यानवनमासाद्य विसृज्य च महाजनम् ॥ 008c
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् । 009a
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते ॥ 009c
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् । 010a
गवाक्षकैस्तथा जालैर्यन्त्रैः साञ्चारिकैरपि ॥ 010c
सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् । 011a
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च ॥ 011c
जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा । 012a
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥ 012c
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह । 013a
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥ 013c
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते । 014a
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥ 014c
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् । 015a
विषं प्रक्षेपयामास भीमसेनजिघांसया ॥ 015c
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः । 016a
स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥ 016c
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् । 017a
प्रभक्षितं च भीमेन तं वै दोषमजानता ॥ 017c
ततो दुर्योधनस्तत्र हृदयेन हसन्निव । 018a
कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः ॥ 018c
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत । 019a
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥ 019c
विहारावसथेष्वेव वीरा वासमरोचयन् । 020a
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले ॥ 020c
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा । 021a
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम् ॥ 021c
शीतं वातं समासाद्य श्रान्तो मदविमोहितः । 022a
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ॥ 022c
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम् । 023a
'शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च ॥ 023c
लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत् । 024a
सशेषत्वान्न सम्प्राप्तो जले शूलिनि पाण्डवः ॥ 024c
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया ।' 025a
स निःसञ्ज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् । 025c
आक्रामन्नागभवने तदा नागकुमारकान् ॥ 025e
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः । 026a
अदश्यत भृशं भीमो महादंष्ट्रैर्विषोल्बणैः ॥ 026c
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् । 027a
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥ 027c
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । 028a
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥ 028c
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । 029a
पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः ॥ 029c
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः । 030a
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥ 030c
अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः । 031a
यथा च नो मतिर्व्रीर विषपीतो भविष्यति ॥ 031c
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत । 032a
ससञ्ज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः ॥ 032c
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि । 033a
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ॥ 033c
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् । 034a
आर्यकेण च दृष्टः स पृथाया आर्यकेण च ॥ 034c
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् । 035a
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥ 035c
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् । 036a
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥ 036c
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत । 037a
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसञ्चयैः ॥ 037c
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः । 038a
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥ 038c
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् । 039a
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥ 039c
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः । 040a
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥ 040c
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः । 041a
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥ 041c
ततस्तु शयने दिव्ये नागदत्ते महाभुजः । 042a
अशेत भीमसेनस्तु यथासुखमरिन्दमः ॥ ॥ 042c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

1-138-10 उपस्थानगृहैः यत्र राजानं कार्यिणः शूराश्चोपतिष्ठन्ति तैर्गृहैः । वलभीभिरुभयतो नमत्पक्षाभिः स्तम्भशालाभिः । यन्त्रैर्जलयन्त्रैः शतधारादिभिः । यतो युगपच्छतं धारा उच्छलन्त्यो नीहारीभूय भवनोदरं व्याप्नुवन्ति । साञ्चारिकैः सञ्चारयोग्यैः ॥ 1-138-11 दीर्घिकाभिः कुल्याभिः ॥ 1-138-13 उपच्छन्नानुपागतान् ॥ 1-138-31 विषपीतः पीतविषः ॥ 1-138-34 आर्यकेण नागराजेन । पृथाया आयकेण मातामहेन । कुन्तिभोजद्वारायं सम्बन्ध इति गम्यते ॥ 1-138-35 दौहित्रदौहित्र इति त्वार्यकनागस्य दौहित्रः शूरस्तद्दौहित्रो भीम इत्यविरुद्धमेतत् । अन्ये तु शूरमातामह एवोपचारात् कुन्तीमातामहोऽपीत्याहुः ॥ 1-138-38 रसं साधितपारदम् ॥ अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥