अध्यायः 137
पाण्डोः श्राद्धदानम् ॥ 1 ॥ कुमाराणां क्रीडावर्णनम् ॥ 2 ॥ क्रीडायां भीमेन दुर्योधनादीनां पराभवः ॥ 3 ॥ दुर्योधनेन प्रमाणकोट्यां पातनं, सर्पैर्दंशनं, विषमिश्रभक्ष्यदानम् ॥ 4 ॥
वैशम्पायन उवाच । 001
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः । 001a
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥ 001c
'पुरोहितसहायास्ते यथान्यायमकुर्वत ।' 002a
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । 002c
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा ॥ 002e
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । 003a
आदाय विविशुः सर्वे पुरं वारणसाह्वयम् ॥ 003c
सततं स्मानुशोचन्तस्तमेव भरतर्षभम् । 004a
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥ 004c
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । 005a
सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥ 005c
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः । 006a
श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना ॥ 006c
बहुमायासमाकीर्णो नानादोषसमाकुलः । 007a
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥ 007c
कुरूणामनयाच्चापि पृथिवी न भविष्यति । 008a
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने ॥ 008c
माद्राक्षीस्त्वं कुलस्यास्य घोरं सङ्क्षयमात्मनः । 009a
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ॥ 009c
अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः । 010a
सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम् ॥ 010c
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । 011a
वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥ 011c
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता । 012a
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥ 012c
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम ॥ 013a
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥ 013c
वैशम्पायन उवाच । 014
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा । 014a
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥ 014c
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम् । 015a
बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन् ॥ 015c
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । 016a
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥ 016c
हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते । 017a
शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः ॥ 017c
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । 018a
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः ॥ 018c
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली । 019a
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान् ॥ 019c
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । 020a
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति ॥ 020c
फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा । 021a
तदा पादप्रहारेण भीमः कम्पयते द्रुमान् ॥ 021c
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः । 022a
सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः ॥ 022c
'केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः । 023a
निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः ॥' 023c
न ते नियुद्धे न जवे न योग्यासु कदाचन । 024a
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥ 024c
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः । 025a
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥ 025c
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । 026a
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥ 026c
तस्य धर्मादपेतस्य पापानि परिपश्यतः । 027a
मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥ 027c
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । 028a
मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां ॥ 028c
प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः । 029a
स्पर्धते चापि सहितानस्मानेको वृकोदरः ॥ 029c
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे । 030a
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम् ॥ 030c
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् । 031a
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । 031c
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥ 031e
ततो जलविहारार्थं कारयामास भारत । 032a
चैलकम्बलवेश्मानि विचित्राणि महान्ति च ॥ 032c
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च । 033a
तत्र सञ्जनयामास नानागाराण्यनेकशः ॥ 033c
उदकक्रीडनं नाम कारयामास भारत । 034a
प्रमाणकोट्यां तं देशं स्थलं किञ्चिदुपेत्यह ॥ 034c
'क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः । 035a
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥ 035c
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । 036a
विहारावसथेष्वेव वीरा वासमरोचयन् ॥ 036c
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । 037a
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥ 037c
प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम् । 038a
शीतं वासं समासाद्य शान्तो मदविमोहितः ॥ 038c
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ । 039a
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः ॥ 039c
प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले । 040a
ततः प्रबुद्धः कौन्तेयः सर्वान्सञ्छिद्य बन्धनान् ॥ 040c
उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः । 041a
स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम् ॥ 041c
पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली । 042a
अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः । 042c
दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात् ॥ 042e
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । 043a
कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु ॥ 043c
दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः । 044a
त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः ॥ 044c
प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत् । 045a
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ 045c
तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः । 046a
वलनेन सहामन्त्र्य सौबलस्य मते स्थितः ॥ 046c
भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम् । 047a
कालकूटं विषं तीक्ष्णं सम्भृतं रोमहर्षणम् ॥ 047c
तच्चापि भुक्त्वाऽजरयदविकारो वृकोदरः । 048a
विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम् ॥ 048c
भीमसंहननो भीमस्तस्मादजरयद्विषम् । 049a
ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम् ॥ 049c
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत् । 050a
चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः ॥ 050c
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । 051a
अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥ 051c
वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया । 052a
पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः । 052c
द्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥' ॥ 052e
इति श्रीमन्महाभाऱते आदिपर्वणि सम्भवपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥
1-137-6 श्वःश्वः पूर्वपूर्वदिनापेक्षया उत्तरमुत्तरं पापिष्ठण् । गतयौवना सम्यक्फलसून्या ॥ 1-137-8 योगं चित्तवृत्तिनिरोधं प्रयाणोद्योगंवा । युक्ता समाहिता ॥ 1-137-24 योग्यासु क्रियास्विति शेषः । उत्तरमुत्कर्षम् ॥ 1-137-28 निकृत्या कपटेन ॥ 1-137-29 प्राणवान् बलवान् ॥ 1-137-31 प्रसह्य बलात्कारेण ॥ 1-137-34 प्रमाणकोट्यां गङ्गायां प्रदेशविशेषे । स्थलं किञ्चिदर्धं जलेऽर्धं स्थले च क्रीडागारम् ॥ 1-137-46 वलनेन तन्नामकेन सहचरेण ॥ सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥