अध्यायः 136
पाण्डोरस्थिसंस्काराद्यन्त्येष्टिविधिः ॥ 1 ॥
धृतराष्ट्र उवाच । 001
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । 001a
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥ 001c
पशून्वासांसि रत्नानि धनानि विविधानि च । 002a
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥ 002c
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । 003a
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥ 003c
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । 004a
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥ 004c
वैशम्पायन उवाच । 005
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । 005a
पाण्डुं संस्कारयामास देशे परमपूजिते ॥ 005c
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः । 006a
निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः ॥ 006c
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः । 007a
शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः ॥ 007c
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । 008a
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे ॥ 008c
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । 009a
अवहन् यानमुख्येन सह माद्र्या सुसंवृतम् ॥ 009c
पाण्डुरेणातपत्रेण चामरव्यजनेन च । 010a
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥ 010c
रत्नानि चाप्युपादाय बहूनि शतशो नराः । 011a
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके ॥ 011c
अथ च्छत्राणि शुभ्राणि चामराणि बृहन्ति च । 012a
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥ 012c
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । 013a
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥ 013c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । 014a
रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥ 014c
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । 015a
कृत्वा चास्माननाथांश्च क्व यास्यति नराधिपः ॥ 015c
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । 016a
'बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः ॥ 016c
अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः ।' 017a
रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥ 017c
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । 018a
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥ 018c
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम् । 019a
शुचिकालीयकादिग्धं दिव्यचन्दनरूपितम् ॥ 019c
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः । 020a
चन्दनेन च शुक्लेन सर्वतः समलेपयन् ॥ 020c
कालागुरुविमिश्रेण तथा तुङ्गरसेन च । 021a
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् ॥ 021c
सञ्छन्नः स तु वासोभिर्जीवन्निव नराधिपः । 022a
शुशुभे स नव्याघ्रो महार्हशयनोचितः ॥ 022c
'हयमेधाग्निना सर्वे याजकाः सपुरोहिताः । 023a
वेदोक्तेन विधानेन क्रियाञ्चक्रुः समन्त्रकम् ॥' 023c
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते । 024a
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥ 024c
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । 025a
'सरलं देवदारुं च गुग्गुलं लाक्षया सह ॥ 025c
हरिचन्दनकाष्ठैश्च हरिबेरैरुशीरकैः ।' 026a
अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन् ॥ 026c
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता । 027a
हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥ 027c
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । 028a
रुरोद दुःखसम्तप्तो राजभक्त्या कृपाऽन्वितः ॥ 028c
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः । 029a
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥ 029c
तथा भीष्मः शान्तनवो विदुरश्च महामतिः । 030a
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥ 030c
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः । 031a
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥ 031c
चुक्रुशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा । 032a
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः ॥ 032c
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान् । 033a
सर्वाः प्रकृतयो राजञ्शोचमाना न्यवारयन् ॥ 033c
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । 034a
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥ 034c
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत् । 035a
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥ ॥ 035c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥
1-136-19 कालीयकादिग्धं कृष्णागुरुलिप्तम् ॥ 1-136-25 तुङ्गपद्मकौ गन्धद्रव्यविशेषौ ॥ षट्त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥