अध्यायः 135

पाण्डवैः सह ऋषीणां हस्तिनापुरगमनम् ॥ 1 ॥ पाण्डुवृत्तान्तकथनपूर्वकं पाण्डवान्भीष्माय समर्प्य ऋषीणां प्रतिनिवर्तनम् ॥ 2 ॥ वैशम्पायन उवाच । 001
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः । 001a
ततो मन्त्रविदः सर्वे मन्त्रयाञ्चक्रिरे मिथः ॥ 001c
तापसा ऊचुः । 002
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः । 002a
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः ॥ 002c
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । 003a
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥ 003c
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः । 004a
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः ॥ 004c
वैशम्पायन उवाच । 005
ते परस्परमामन्त्र्य देवकल्पा महर्षयः । 005a
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥ 005c
उदारमनसः सिद्धा गमने चक्रिरे मनः । 006a
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि ॥ 006c
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । 007a
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः ॥ 007c
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । 008a
प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥ 008c
सा त्वदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । 009a
वर्धमानपुरद्वारमाससाद यशस्विनी ॥ 009c
द्वारिणं तापसा ऊचू राजानं च प्रकाशय । 010a
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः ॥ 010c
तं चारणसहस्राणां मुनीनामागमं तदा । 011a
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत ॥ 011c
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः । 012a
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥ 012c
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः । 013a
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥ 013c
तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत् । 014a
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥ 014c
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । 015a
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥ 015c
सा च सत्यवती देवी कौसल्या च यशस्विनी । 016a
राजदारैः परिवृता गान्धारी चापि निर्ययौ ॥ 016c
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । 017a
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥ 017c
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च । 018a
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥ 018c
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । 019a
उपोपविविशुः सर्वे पौरजानपदा अपि ॥ 019c
तमकूजमभिज्ञाय जनौघं सर्वशस्तदा । 020a
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो ॥ 020c
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् । 021a
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । 021c
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत् ॥ 021e
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । 022a
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥ 022c
'राजा भोगान्परित्यज्य तपस्वी सम्बभूव ह । 023a
स यथोक्तं तपस्तेपे पत्रमूलफलाशनः ॥ 023c
पत्नीभ्यां सह धर्मात्मा कञ्चित्कालमतन्द्रितः । 024a
तेन वृत्तसमाचारैस्तपसा च तपस्विनः ॥ 024c
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः । 025a
स्वर्गलोकं गन्तुकामं तापसाः सन्निवार्य तम् ॥ 025c
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् । 026a
अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते ॥ 026c
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ । 027a
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ॥ 027c
प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि । 028a
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ॥ 028c
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा ।' 029a
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ॥ 029c
साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः । 030a
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ॥ 030c
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् । 031a
पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः ॥ 031c
'अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत् । 032a
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ॥ 032c
अजेयानपि जेताऽरीन्देवतादीन्न संशयः ।' 033a
यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥ 033c
'युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति । 034a
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ॥ 034c
एष दुर्योधनादीनां कौरवाणां च जेष्यति । 035a
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ॥ 035c
यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा ।' 036a
यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ ॥ 036c
अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः । 037a
'नकुलः सहदेवश्च तावप्यमिततेजसौ ॥' 037c
चरता धर्मनित्येन वनवासं यशस्विना । 038a
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥ 038c
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । 039a
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ ॥ 039c
वर्तमानः सतां वृत्ते पुत्रलाभमवाप च । 040a
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥ 040c
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । 041a
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥ 041c
सा गता सह तेनैव पतिलोकमनुव्रता । 042a
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥' 042c
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः । 043a
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥ 043c
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः । 044a
क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥ 044c
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः । 045a
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥ 045c
वैशम्पायन उवाच । 046
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । 046a
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह ॥ 046c
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः । 047a
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ ॥ 047c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

1-135-4 देहं देहयोरस्थीनि ॥ 1-135-8 तद्गमनं सङ्क्षिप्तममन्यत मुनीनां योगप्रभावात् स्वदेशगमनौत्कण्ठ्याद्वा ॥ 1-135-9 वर्धमानपुरद्वारं मुख्यद्वारम् ॥ 1-135-11 आरण्यानां सहस्रसङ्ख्यानां मुनीनां चेति योज्यम् ॥ 1-135-14 व्यतिकरः सङ्घर्षः ॥ 1-135-20 अकूजं निःशब्दम् ॥ 1-135-45 प्रेतकार्ये सपिण्डीकरणान्ते । पितृमेधं यज्ञविशेषम् । वृषोत्सर्गादिकं वा ॥ 1-135-47 गन्धर्वनगरं स्वपुरम् ॥ पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥