अध्यायः 134

पाण्डवानामायुष्यकथनम् ॥ 1 ॥ माद्र्या मैथुनप्रवृत्तस्य पाण्डोर्मरणम् ॥ 2 ॥ पाण्डवप्रलापः ॥ 3 ॥ माद्र्याः सहगमनम् ॥ 4 ॥ मृतस्य पाण्डोर्दहनादिसंस्कारः ॥ 5 ॥ 'जनमेजय उवाच । 001
कस्मिन्वयसि सम्प्राप्ताः पाण्डवा गजसाह्वयम् । 001a
समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम् ॥ 001c
वैशम्पायन उवाच । 002
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन । 002a
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः ॥ 002c
भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः । 003a
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् ॥ 003c
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः । 004a
षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः ॥ 004c
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे । 005a
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत ॥ 005c
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम् । 006a
द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः ॥ 006c
भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम् । 007a
मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः ॥ 007c
राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन् । 008a
एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम् ॥ 008c
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः । 009a
कृष्णात्सङ्कर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः ॥ 009c
पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान् । 010a
रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा ॥ 010c
सुपुष्पितवने काले प्रवृत्ते मधुमाधवे । 011a
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः ॥ 011c
यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः । 012a
तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने ॥ 012c
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने । 013a
पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत् ॥' 013c
वैशम्पायन उवाच । 014
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । 014a
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः ॥ 014c
सुपुष्पितवने काले कदाचिन्मधुमाधवे । 015a
भूतसम्मोहने राजा सभार्यो व्यचरद्वनम् ॥ 015c
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । 016a
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥ 016c
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । 017a
पाण्डोर्वनं तत्सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥ 017c
प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम् । 018a
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥ 018c
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । 019a
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः ॥ 019c
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम् । 020a
न शशाक नियन्तुं तं कामं कामवशीकृतः ॥ 020c
'अथ सोऽष्टादशे वर्षे ऋतौ माद्रीमलङ्कृताम् । 021a
आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥' 021c
तत एनां बलाद्राजा निजग्राह रहोगताम् । 022a
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥ 022c
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । 023a
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव ॥ 023c
जीवितान्ताय कौरव्य मन्मथस्य वशं गतः । 024a
शापजं भयमुत्सृज्य विधिना सम्प्रचोदितः ॥ 024c
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । 025a
सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥ 025c
स तया सह सङ्गम्य भार्यया कुरुनन्दनः । 026a
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥ 026c
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । 027a
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि ॥ 027c
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । 028a
आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥ 028c
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । 029a
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥ 029c
तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान् । 030a
हताऽहमिति विक्रुश्च सहसैवाजगाम सा ॥ 030c
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । 031a
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥ 031c
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । 032a
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः ॥ 032c
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः । 033a
सा कथं लोभितवती विजने त्वं नराधिपम् ॥ 033c
कथं दीनस्य सततं त्वामासाद्य रहोगताम् । 034a
तं विचिन्तयतः शापं प्रहर्षः समजायत ॥ 034c
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । 035a
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥ 035c
माद्र्युवाच । 036
विलपन्त्या मया देवि वार्यमाणेन चासकृत् । 036a
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥ 036c
'वैशम्पायान उवाच । 037
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता । 037a
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ 037c
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा । 038a
तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम् ॥ 038c
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे । 039a
कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् ॥ 039c
आर्ये एहीति तां कुन्तीं दर्शयामास कौरव । 040a
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् ॥ 040c
रक्तचन्दनदिग्धाङ्गं महारजनवाससम् । 041a
सस्मितेन च वक्त्रेण वदन्तमिव भारतम् ॥ 041c
परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया । 042a
माद्री चापि समालिङ्ग्य राजानं विललाप सा ॥ 042c
तं तथा शायिनं पुत्रा ऋषयः सह चारणैः । 043a
अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन् ॥ 043c
अस्तं गतमिवादित्यं संशुष्कमिव सागरम् । 044a
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः ॥ 044c
समानशोका ऋषयः पाण्डवाश्च बभूविरे । 045a
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते ॥ 045c
कुन्त्युवाच । 046
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम् । 046a
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै ॥ 046c
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसङ्क्षयात् । 047a
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ ॥ 047c
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशाम्पते । 048a
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत ॥ 048c
यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि । 049a
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् ॥ 049c
आजमीढाजमीढानां कर्मणा चरतां गतिम् । 050a
ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया ॥ 050c
प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता । 051a
आवाभ्यां चैव सहितो गमिष्यसि विशाम्पते । 051c
मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव ॥ 051e
वैशम्पायन उवाच । 052
विलपित्वा भृशं चैव निःसञ्ज्ञे पतिते भुवि । 052a
यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा ॥ 052c
युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः । 053a
तेऽभ्यागत्य पितुर्मूले निःसञ्ज्ञाः पतिता भुवि ॥ 053c
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः । 054a
हा विनष्टाः स्म तातेति हा अनाथा भवामहे ॥ 054c
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः । 055a
लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे ॥ 055c
क्षणेनैव महाराज अहो लोकस्य चित्रता । 056a
नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत ॥ 056c
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा । 057a
पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत् ॥ 057c
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम् । 058a
भीमसेन उवाच । 058
हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना ॥ 058c
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् । 059a
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् ॥ 059c
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् । 060a
पुत्रानुत्पाद्य पितरो यमिच्छन्ति महात्मनः ॥ 060c
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः । 061a
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत ॥ 061c
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ॥ 062ac
अर्जुन उवाच । 063
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् । 063a
तस्मिंस्तदा वनगते नष्टं राज्यमराजकम् ॥ 063c
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः । 064a
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर ॥ 064c
इत्येवमुक्त्वा पितरं विललाप धनञ्जयः । 065a
यमावूचतुः । 065
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ ॥ 065c
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया । 066a
न चावाप्तं किञ्चिदेव पुरा दशरथो यथा ॥ 066c
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ ॥' 067ac
कुन्त्युवाच । 068
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । 068a
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥ 068c
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम् । 069a
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥ 069c
'अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये । 070a
वैशम्पायन उवाच । 070
मद्रराजसुता कुन्तीमिदं वचनमब्रवीत् ॥' 070c
अहमेवानुयास्यामि भर्तारमपलापिनम् । 071a
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम् ॥ 071c
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । 072a
समुच्छिद्यामि तत्कामं कथं नु यमसादने ॥ 072c
'मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः । 073a
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः ॥ 073c
न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता । 074a
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् ॥ 074c
वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते । 075a
तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान् ॥ 075c
तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत् । 076a
अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् ॥' 076c
मां हि कामयमानोऽयं राजा प्रेतवशं गतः । 077a
राज्ञः शरीरेण सह मामपीदं कलेवरम् ॥ 077c
दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु । 078a
दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया । 078c
अतोऽहं न प्रपश्यामि सन्देष्टव्यं हितं तव ॥ 078e
'वैशम्पायन उवाच । 079
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् । 079a
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः ॥ 079c
सुभगे बालपुत्रा तु न मर्तव्यं तथञ्चन । 080a
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान् ॥ 080c
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् । 081a
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि ॥ 081c
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च । 082a
माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः ॥ 082c
भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः । 083a
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः ॥ 083c
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता । 084a
यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा ॥ 084c
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा । 085a
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च ॥ 085c
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम् ॥ 086ac
कुन्त्युवाच । 087
यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च । 087a
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा ॥ 087c
यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम् । 088a
भर्तुश्च मम पुत्राणामात्मनश्च न संशयः ॥ 088c
माद्र्युवाच । 089
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे । 089a
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती ॥ 089c
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च । 090a
नाहं त्वमिव पुत्राणां समर्था धारणे तथा ॥ 090c
साऽहं भर्तारमन्विष्ये सन्तृप्ता नापि भोगतः । 091a
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् ॥ 091c
धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः । 092a
पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम् ॥ 092c
वैशम्पायन उवाच । 093
एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा । 093a
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च ॥ 093c
अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान् । 094a
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा ॥ 094c
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत । 095a
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः ॥ 095c
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा । 096a
वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः ॥ 096c
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् । 097a
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः ॥ 097c
वैशम्पायन उवाच । 098
ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः । 098a
आयासकृपणा माद्री प्रत्युवाच पृथां तदा ॥ 098c
माद्र्युवाच । 099
ऋषीणां सन्निधावेषां यथा वागभ्युदीरिता । 099a
दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत् ॥ 099c
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया । 100a
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् ॥ 100c
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् । 101a
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः ॥ 101c
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः । 102a
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि ॥ 102c
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् । 103a
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां ॥ 103c
वैशम्पायन उवाच । 104
बाष्पसन्दिग्धया वाचा कुन्त्युवाच यशस्विनी । 104a
अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते ॥ 104c
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि । 105a
सङ्गतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः ॥ 105c
वैशम्पायन उवाच । 106
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः । 106a
हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान् ॥ 106c
उदकुम्भांश्च परशुं समानीय तपस्विभिः । 107a
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ॥ 107c
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् । 108a
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः ॥ 108c
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा । 109a
रुदञ्छोकाभिसन्तप्तः पपात भुवि पाण्डवः ॥ 109c
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज ।' 110a
नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम् ॥ 110c
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी ॥ 111ac
'अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः । 112a
उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥ 112c
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः । 113a
तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह ॥ ॥ 113c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

1-134-15 मधुभाधवे चैत्रवैशाखयोः सन्धौ तदात्मके वसन्ते ॥ 1-134-19 वयः स्थां युवतीम् । तनुवाससं सूक्ष्मवस्त्रां किञ्चिद्विवृताङ्गामित्यर्थः ॥ 1-134-23 कामपरीतात्मा कामेन व्याप्तचित्तः ॥ 1-134-25 बुद्दिर्भयनिश्चयः । चेतसा विचारेण ॥ 1-134-26 कालधर्मणा मृत्युना ॥ 1-134-28 तथागतः मृतः ॥ 1-134-32 त्वामत्यतिक्रान्तो बलादाक्रान्तवान् । शोकाकुलत्वादतिशब्दस्याभ्यासः ॥ 1-134-34 प्रहर्षः कामः ॥ 1-134-36 आत्मा चित्तम् । दिष्टं शापजं दुरदृष्टम् ॥ 1-134-69 प्रेतवशं प्रेतराजवशम् । अन्विष्याम्यनुगमिष्यामि ॥ चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥