अध्यायः 133
अश्विभ्यां माद्र्यां नकुलसहदेवयोरुत्पत्तिः ॥ 1 ॥ युधिष्ठिरादीनां नामकरणम् ॥ 2 ॥ वसुदेवप्रेषितेन पुरोहितेन पाण्डवानामुपनयनादिसंस्कारकरणम् ॥ 3 ॥ पाण्डवानां शुक्राद्धनुर्वेदशिक्षणम् ॥ 4 ॥
वैशम्पायन उवाच । 001
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । 001a
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥ 001c
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । 002a
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥ 002c
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । 003a
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥ 003c
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । 004a
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥ 004c
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । 005a
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥ 005c
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । 006a
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥ 006c
पाण्डुरुवाच । 007
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । 007a
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥ 007c
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम् । 008a
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते ॥ 008c
वैशम्पायन उवाच । 009
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । 009a
'अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि ।' 009c
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥ 009e
मम चापिण्डनाशाय पूर्वेषां च महात्मनाम् । 010a
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥ 010c
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । 011a
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना ॥ 011c
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । 012a
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥ 012c
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । 013a
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥ 013c
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते । 014a
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि ॥ 014c
'कुन्त्युवाच । 015
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा । 015a
तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन ॥' 015c
वैशम्पायन उवाच । 016
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम् । 016a
तस्मात्ते भविताऽपत्यमनुरूपमसंशयम् ॥ 016c
'ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा । 017a
ततो राजसुता स्नाता शयने संविवेश ह ॥' 017c
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ । 018a
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ । 018c
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ॥ 018e
तथैव तावपि यमौ वागुवाचाशरीरिणी । 019a
'धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा ॥ 019c
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति । 020a
मासते तेजसाऽत्यर्थं रूपद्रविणसम्पदा ॥ 020c
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । 021a
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशाम्पते ॥ 021c
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् । 022a
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥ 022c
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । 023a
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥ 023c
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः । 024a
पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव ॥ 024c
महासत्त्वा महावीर्या महाबलपराक्रमाः । 025a
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः ॥ 025c
मुदं परमिकां लेभे ननन्द च नराधिपः । 026a
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम् ॥ 026c
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् । 027a
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ॥ 027c
तमुवाच पृथा राजन् रहस्युक्ता तदा सती । 028a
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ॥ 028c
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी । 029a
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ॥ 029c
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम । 030a
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः ॥ 030c
सम्भूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः । 031a
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः ॥ 031c
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः । 032a
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥ 032c
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । 033a
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥ 033c
'जातमात्रानुपादाय शतशृङ्गनिवासिनः । 034a
पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान् ॥ 034c
वैशम्पायन उवाच । 035
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः ॥ 035ac
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान् । 036a
तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः ॥ 036c
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः । 037a
योगध्यानपरो राजा बभूवेति च वादकाः ॥ 037c
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः । 038a
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम सङ्कथाः ॥ 038c
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः । 039a
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः ॥ 039c
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् । 040a
न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः ॥ 040c
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् । 041a
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् ॥ 041c
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः । 042a
कुन्तीं माद्रीं च सन्दिश्य दासीदासपरिच्छदम् ॥ 042c
गावो हिरण्यं रौप्यं च प्रेषयामास भारत । 043a
तानि सर्वाणि सङ्गृह्य प्रययौ स पुरोहितः ॥ 043c
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् । 044a
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः ॥ 044c
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् । 045a
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् ॥ 045c
गर्भाधानादिकृत्यानि चौलोपनयनानि च । 046a
काश्यपः कृतवान्सर्वमुपाकर्म च भारत ॥ 046c
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः । 047a
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः ॥ 047c
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः । 048a
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ 048c
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः । 049a
आराध्य देवताः सर्वाः पितॄनपि महामतिः ॥ 049c
शतशृङ्गे तपस्तेपे शाकमूलफलाशनः । 050a
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः ॥ 050c
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः । 051a
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः ॥ 051c
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ । 052a
धनुर्वेदे गतः पारं सव्यसाची परन्तपः ॥ 052c
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो । 053a
अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान् ॥ 053c
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम् । 054a
विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान् ॥ 054c
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् । 055a
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः ॥ 055c
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः ॥ 056ac
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः । 057a
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च ॥' 057c
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । 058a
सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः ॥ ॥ 058c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥
1-133-2 विगुणे प्रजोत्पादनानधिकृते । अवरत्वे कनिष्ठात्वे । वरार्हायाः कृन्त्या अपेक्षया ॥ 1-133-6 संरम्भोऽभिमानः ॥ 1-133-7 इष्टमनिष्टं वा वक्ष्यसीति सन्देहेन ॥ 1-133-8 प्रतिपत्स्यते अङ्गीकरिष्यति ॥ 1-133-9 सन्तानमविच्छेदम् ॥ 1-133-10 मम पूर्वेषां चापिण्डनाशाय पिण्डविनाशाभावाय । बहुषु पुत्रेषु कस्यचिदपि पुत्रस्य सन्ततेरविच्छेदसम्भवादित्यर्थः ॥ 1-133-11 यशस इति कृतकृत्या अपि यशोर्थं देवगुर्वाद्याराधनं कुर्वन्तीत्यर्थः ॥ 1-133-20 अत्यश्विनौ अश्विभ्यामधिकौ ॥ 1-133-24 अनुसंवत्सरं संवत्सरमनु पश्चाज्जाता अपि देवताभावात्सर्वे पञ्चसंवत्सरा इवादृश्यन्तेत्यर्थः ॥ त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥