अध्यायः 132

कुन्त्यां इन्द्रादर्जुनोत्पत्तिः ॥ 1 ॥ तद्वेलायां आकाशवाण्यादि ॥ 2 ॥ वैशम्पायन उवाच । 001
जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत् । 001a
कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति ॥ 001c
दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः । 002a
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥ 002c
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । 003a
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥ 003c
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । 004a
यं दास्यति स मे पुत्रं स वीरयान्भविष्यति ॥ 004c
अमानुषान्मानुषांश्च सङ्ग्रामे स हनिष्यति । 005a
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥ 005c
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः । 006a
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥ 006c
आत्मना च महाबाहुरेकपादस्थितोऽभवत् । 007a
उग्रं स तप आस्थाय परमेण समाधिना ॥ 007c
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । 008a
सूर्येण सह धर्मात्मा पर्यतप्यत भारत ॥ 008c
तं तु कालेन महता वासवः प्रत्यपद्यत । 009a
शक्र उवाच । 009
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥ 009c
ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम् । 010a
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम् ॥ 010c
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् । 011a
इत्युक्तः कौरवो राजा वासवेन महात्मना ॥ 011c
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् । 012a
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः ॥ 012c
दातुमिच्छति ते पुत्रं यथा सङ्कल्पितं त्वया । 013a
अतिमानुषकर्माणं यशस्विनमरिन्दमम् ॥ 013c
नीतिमन्तं महात्मानमादित्यसमतेजसम् । 014a
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥ 014c
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् । 015a
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥ 015c
वैशम्पायन उवाच । 016
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । 016a
अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥ 016c
'उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा । 017a
जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः' ॥ 017c
जातमात्रे कुमारे तु 'सर्वभूतप्रहर्षिणी । 018a
सूतके वर्तमानां तां' वागुवाचाशरीरिणी । 018c
महागम्भीरनिर्घोषा नभो नादयती तदा ॥ 018e
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम् । 019a
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम् ॥ 019c
कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः । 020a
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति ॥ 020c
अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता । 021a
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥ 021c
एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः । 022a
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति ॥ 022c
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । 023a
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥ 023c
ग्रामणीश्च महीपालानेष जित्वा महाबलः । 024a
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥ 024c
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । 025a
एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः ॥ 025c
एष युद्धे महादेवं तोषयिष्यति शङ्करम् । 026a
अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति ॥ 026c
निवातकवचा नाम दैत्या विबुधविद्विषः । 027a
शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः ॥ 027c
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति । 028a
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥ 028c
एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके । 029a
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम् ॥ 029c
बभूव पमो हर्षः शतशृङ्गनिवासिनाम् । 030a
तथा देवमहर्षीणां सेन्द्राणां च दिवौकसाम् ॥ 030c
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः । 031a
उदतिष्ठन्महाघोरः पुष्पवृष्टिभिरावृतः ॥ 031c
समवेत्य च देवानां गणाः पार्थमपूजयन् । 032a
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । 032c
प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥ 032e
भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः । 033a
यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ॥ 033c
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । 034a
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥ 034c
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः । 035a
उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः ॥ 035c
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः । 036a
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥ 036c
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । 037a
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः ॥ 037c
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । 038a
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥ 038c
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः । 039a
ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः ॥ 039c
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः । 040a
विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा ॥ 040c
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू । 041a
इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप ॥ 041c
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः । 042a
ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥ 042c
अनूचानाऽनवद्या च गुणमुख्या गुणावरा । 043a
अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा ॥ 043c
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा । 044a
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥ 044c
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा । 045a
पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी ॥ 045c
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः । 046a
मेनका सहजन्या च कर्णिका पुञ्जिकस्थला ॥ 046c
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । 047a
उम्लोचेति च विख्याता प्रम्लोचेति च ता दश ॥ 047c
उर्वश्येकादशी तासां जगुश्चायतलोचनाः । 048a
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ 048c
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः । 049a
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ 049c
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ॥ 050ac
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः । 051a
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तप ॥ 051c
दहनोऽथेश्वरश्चैव कपाली च विशाम्पते । 052a
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥ 052c
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । 053a
विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः ॥ 053c
कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः । 054a
कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः ॥ 054c
आययुस्तपसा युक्ता महाक्रोधा महाबलाः । 055a
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥ 055c
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः । 056a
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥ 056c
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः । 057a
विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः ॥ 057c
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः । 058a
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति ॥ 058c
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत् । 059a
पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम् ॥ 059c
प्रादुर्भूतो ह्ययं धर्मो देवतानां प्रसादतः । 060a
मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः ॥ 060c
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः । 061a
पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया ॥ 061c
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक् । 062a
इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम् ॥ 062c
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । 063a
प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत् ॥ 063c
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत । 064a
अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत् ॥ 064c
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम् । 065a
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥ ॥ 065c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

1-132-8 सूर्येण सह उदयादस्तमयावधि ॥ द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥