अध्यायः 131

दुर्योधनादीनां नामकथनम् ॥ 1 ॥ दुःशलाविवाहः ॥ 2 ॥ जनमेजय उवाच । 001
ज्येष्ठाऽनुज्येष्ठतां तेषां नामानि च पृथक्पृथक् । 001a
धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात्प्रकीर्तय ॥ 001c
वैशम्पायन उवाच । 002
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । 002a
दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥ 002c
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । 003a
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥ 003c
विविंशतिर्विकर्णश्च शलः सत्वः सुलोचनः । 004a
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥ 004c
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः । 005a
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥ 005c
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः । 006a
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः ॥ 006c
भीमवेगो भीमबलो बलाकी बलवर्धनः । 007a
उग्रायुधः सुषेणश्च कुण्डधारो महोदरः ॥ 007c
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा । 008a
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥ 008c
दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक् । 009a
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः ॥ 009c
अपराजितः कुण्डशायी विशालाक्षो दुराधरः । 010a
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ 010c
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि । 011a
कवची क्रथनः कुण्डी कुण्डधारो धनुर्धरः ॥ 011c
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः । 012a
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः ॥ 012c
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः । 013a
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान् ॥ 013c
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः । 014a
कुण्डाशी विराजाश्चैव दुःशला च शताधिका ॥ 014c
इति पुत्रशतं राजन्कन्या चैव शताधिका । 015a
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप ॥ 015c
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः । 016a
सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः ॥ 016c
सर्वेषामनुरूपाश्च कृता दारा महीपते । 017a
धृतराष्ट्रेण समये परीक्ष्य विविवन्नृप ॥ 017c
दुःशलां चापि समये धृतराष्ट्रो नराधिपः । 018a
जयद्रथाय प्रददौ विधिना भरतर्षभ ॥ 018c
'इति पुत्रशतं राजन्युयुत्सुश्च शताधिकः । 019a
कन्यका दुःशला चैव यथावत्कीर्तितं मया' ॥ ॥ 019c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥