अध्यायः 130
दुःशलाजननप्रकारकथनम् ॥ 1 ॥
जनमेजय उवाच । 001
धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया । 001a
ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता ॥ 001c
वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका । 002a
गान्धारराजदुहिता शतपुत्रेति चानघ ॥ 002c
उक्ता महर्षिणा तेन व्यासेनामिततेजसा । 003a
कथं त्विदानीं भगवन्कन्यां त्वं तु ब्रवीषि मे ॥ 003c
यदि भागशतं पेशी कृता तेन महर्षिणा । 004a
न प्रजास्यति चेद्भूयः सौबलेयी कथञ्चन ॥ 004c
कथं तु सम्भवस्तस्या दुःशलाया वदस्व मे । 005a
यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम् ॥ 005c
वैशम्पायन उवाच । 006
साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते । 006a
तां मांसपेशीं भगवान्स्वयमेव महातपाः ॥ 006c
शीताभिरद्भिरासिच्य भागं भागमकल्पयत् । 007a
यो यथा कल्पितो भागस्तन्तं धात्र्या तथा नृप ॥ 007c
घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा । 008a
एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता ॥ 008c
दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना । 009a
'नाब्रवीत्तमृषिं किञ्चिद्गौरवाच्च यशस्विनी ।' 009c
मनसा चिन्तयद्देवी एतत्पुत्रशतं मम ॥ 009e
भविष्यति न सन्देहो न ब्रवीत्यन्यथा मुनिः । 010a
ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि ॥ 010c
एका शताधिका बाला भविष्यति कनीयसी । 011a
ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम ॥ 011c
अधिका किल नारीणां प्रीतिर्जामातृजा भवेत् । 012a
यदि नाम ममापि स्याद्दुहितैका शताधिका ॥ 012c
कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता । 013a
यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम् ॥ 013c
गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम । 014a
एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम् ॥ 014c
व्यभजत्स तदा पेशीं भगवानृषिसत्तमः । 015a
'गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना ॥ 015c
अभवच्चापरं खण्डं वामहस्ते तदा किल ।' 016a
गणयित्वा शतं पूर्णमंशानामाह सौबलीम् ॥ 016c
व्यास उवाच । 017
पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता । 017a
दैवयोगाच्च भागैकः परिशिष्टः शतात्परः ॥ 017c
एषा ते सुभगा कन्या भविष्यति यतेप्सिता । 018a
वैशम्पायन उवाच । 018
ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः ॥ 018c
तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः । 019a
'सम्भूता चैव कालेन सर्वेषां च यवीयसी ॥ 019c
ऐतत्ते कथितं राजन्दुःशलाजन्म भारत । 020a
ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ ॥ ॥ 020c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥
1-130-4 न प्रजास्यति प्रजामात्मनो नेच्छति ॥ त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥