अध्यायः 128
उद्दालककथा ॥ 1 ॥ उद्दालकपुत्रेण श्वेतकेतुना कृता स्त्रीपुरुषमर्यादा ॥ 2 ॥ गुणाधिकात् द्विजातेः पुत्रोत्पादनार्थं प्रति पाण्डोराज्ञा ॥ 3 ॥ कुन्त्या दुर्वाससः स्वस्य मन्त्रप्राप्तिकथनम् ॥ 4 ॥
वैशम्पायन उवाच । 001
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । 001a
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥ 001c
पाण्डुरुवाच । 002
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । 002a
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥ 002c
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे । 003a
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥ 003c
अनावृताः किल पुरा स्त्रिय आसन्वरानने । 004a
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ॥ 004c
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । 005a
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥ 005c
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । 006a
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥ 006c
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । 007a
उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते । 007c
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ 007e
'नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । 008a
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ 008c
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति । 009a
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥ 009c
पुत्रं वा किल पौत्रं वा कासाञ्चिद्धातरं तथा । 010a
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा ॥ 010c
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ।' 011a
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ॥ 011c
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु । 012a
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥ 012c
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः । 013a
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥ 013c
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥ 014ac
'श्वेतकेतोः पिता देवि तप उग्रं समास्थितः । 015a
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् ॥ 015c
शिशिरे सलिलस्थायी सह पत्न्या महातपाः । 016a
उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥ 016c
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह । 017a
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसन्ततः ॥ 017c
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः । 018a
स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत ॥ 018c
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् । 019a
क्षुत्पिपासाश्रमेण्णार्तः पूजितश्च महर्षिणा ॥ 019c
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा । 020a
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥ 020c
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः । 021a
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥ 021c
उद्दालक उवाच । 022
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता । 022a
मामेवानुगता पत्नी मम नित्यमनुव्रता ॥ 022c
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी । 023a
अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः ॥ 023c
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः । 024a
लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी ॥ 024c
ब्राह्मण उवाच । 025
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः । 025a
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः ॥ 025c
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता । 026a
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे ॥ 026c
पाण्डुरुवाच । 027
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् । 027a
यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥ 027c
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः ।' 028a
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ॥ 028c
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत् । 029a
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा ॥ 029c
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव । 030a
'तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ॥ 030c
सङ्गृह्य मातरं हस्ते श्वेतकेतुरभाषत । 031a
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ॥ 031c
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः । 032a
शापानुग्रहयोः शक्तः तूष्णीम्भूतो महाव्रतः ॥ 032c
तस्य पत्नी दमोपेता मम माता विशेषतः । 033a
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ॥ 033c
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥ 034ac
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः । 035a
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥ 035c
ब्राह्मण उवाच । 036
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः । 036a
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप ॥ 036c
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः । 037a
मम को दास्यति सुतां कन्यां सम्प्राप्तयौवनाम् ॥ 037c
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः । 038a
एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥ 038c
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् ।' 039a
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ॥ 039c
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः । 040a
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥ 040c
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः । 041a
'तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ॥ 041c
ऋतुकाले तु सम्प्राप्ते भर्तारं न जहुस्तदा ।' 042a
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ॥ 042c
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि । 043a
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ॥ 043c
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् । 044a
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥ 044c
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् । 045a
'अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥ 045c
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि । 046a
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥' 046c
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् । 047a
पतिव्रतामेतदेव भविता पातकं भुवि ॥ 047c
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् । 048a
न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात् । 048c
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ॥ 048e
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना । 049a
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि ॥ 049c
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् । 050a
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ॥ 050c
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया । 051a
अस्माकमपि ते जन्म विदितं कमलेक्षणे ॥ 051c
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये । 052a
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ॥ 052c
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते । 053a
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ॥ 053c
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः । 054a
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ॥ 054c
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते । 055a
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ॥ 055c
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः । 056a
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् ॥ 056c
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः । 057a
अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे ॥ 057c
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः । 058a
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात् ॥ 058c
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि । 059a
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥ 059c
वैशम्पायन उवाच । 060
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । 060a
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥ 060c
'अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम । 061a
यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ । 061c
शृणु चेदं महाबाहो मम प्रीतिकरं चः ॥' 061e
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने । 062a
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥ 062c
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । 063a
तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥ 063c
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । 064a
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम् ॥ 064c
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । 065a
अकामो वा सकामो वा वशं ते समुपैष्यति ॥ 065c
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति । 066a
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत ॥ 066c
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः । 067a
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ॥ 067c
'यां मे विद्यां महाराज अददात्स महायशाः । 068a
तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् । 068c
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥' ॥ 068e
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥
1-128-4 अनावृताः सर्वैर्द्रष्टुं योग्याः । कामचारो रतिसुखं तदर्थं विहारिण्यः पर्यटनशीलाः । स्वतन्त्रा भर्त्रादिभिरनिवार्याः ॥ 1-128-5 पतीन्व्युच्चरमाणानां व्यभिचरन्तीनाम् ॥ 1-128-6 अनुविधीयन्ते अनुसार्यन्ते ईश्वरेण ॥ 1-128-11 नचिरादल्पकालतः ॥ 1-128-55 पुराणं युगान्तरीयम् ॥ 1-128-59 त्वत्कृते त्वया ॥ 1-128-64 अभिचारो देवताकर्षणशक्तिः ॥ अष्टविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥