अध्यायः 125

ब्रह्मलोकं जिगमिषोः पाण्डोः तव पुत्रा भविष्यन्तीत्युक्त्वा ऋषिभिः प्रतिनिवर्तनम् ॥ 1 ॥ वैशम्पायन उवाच । 001
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । 001a
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥ 001c
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । 002a
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥ 002c
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । 003a
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥ 003c
स तु कालेन महता प्राप्य निष्कल्मषं तपः । 004a
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥ 004c
अमावास्यां तु सहिता ऋषयः संशितव्रताः । 005a
ब्रह्माणं द्रष्टुकामास्ते सम्प्रतस्थुर्महर्षयः ॥ 005c
सम्प्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् । 006a
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥ 006c
ऋषय ऊचुः । 007
समावायो महानद्य ब्रह्मलोके महात्मनाम् । 007a
देवानां च ऋषीणां च पितॄणां च महात्मनाम् । 007c
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयम्भुवम् ॥ 007e
वैशम्पायन उवाच । 008
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः । 008a
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः ॥ 008c
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः । 009a
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥ 009c
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम् । 010a
विमानशतसम्बाधां गीतस्वरनिनादिताम् ॥ 010c
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा । 011a
उद्यानानि कुबेरस्य समानि विषमाणि च ॥ 011c
महानदीनितम्बांश्च गहनान्गिरिगह्वरान् । 012a
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ॥ 012c
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः । 013a
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः ॥ 013c
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः । 014a
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे ॥ 014c
न सीदेतामदुःखार्हे मा गमो भरतर्षभ । 015a
पाण्डुरुवाच । 015
अप्रजस्य महाभागा न द्वारं परिचक्षते ॥ 015c
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः । 016a
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ॥ 016c
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा । 017a
ऋषय ऊचुः । 017
अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम् ॥ 017c
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा । 018a
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय ॥ 018c
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः । 019a
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि ॥ 019c
अपत्यं गुणसम्पन्नं लब्धा प्रीतिकरं ह्यसि । 020a
वैशम्पायन उवाच । 020
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत् ॥ 020c
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ ॥ 021ac

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सम्भवपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

1-125-5 अमावास्यां प्राप्य ॥ 1-125-10 विमानशतेन सम्बाधं सङ्कटं यस्यां सा ॥ 1-125-19 अव्यग्रो विन्दतेऽतो व्यग्रो माभूरित्यर्थः ॥ 1-125-20 लभते इति लब्धा तादृशोऽसि लप्स्यसीत्यर्थः ॥ पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥