अध्यायः 123

सभार्यस्य पाण्डोर्मृगयार्थं वनगमनम् ॥ 1 ॥ तत्र मृगरूपस्य मृग्या मैथुनं चरतः किन्दमस्य मुनेर्हननम् ॥ 2 ॥ मैथुनकाले त्वं मरिष्यसीति किन्दमेन पाण्डुं प्रति शापः ॥ 3 ॥ वैशम्पायन उवाच । 001
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । 001a
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥ 001c
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । 002a
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥ 002c
ततः सत्यवतीं भीष्मं कौसल्यां च यशस्विनीम् । 003a
शुभैः पाण्डुर्जितैरर्थैस्तोषयामास भारत ॥ 003c
ननन्द माता कौसल्या तमप्रतिमतेजसम् । 004a
जयन्तमिव पौलोमी परिष्वज्य नर्षभम् ॥ 004c
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । 005a
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥ 005c
सम्प्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ । 006a
जिततन्द्रिस्तदा पाण्डुर्बभूव वनगोचरः ॥ 006c
हित्वा प्रासादनिलयं शुभानि शयनानि च । 007a
अरण्यनित्यः सततं बभूव मृगयापरः ॥ 007c
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरः । 008a
उवास गिरिपृष्ठेषु महाशालवनेषु च ॥ 008c
रराज कुन्त्या माद्र्या च पाण्डुः सह वने चरन् । 009a
करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः ॥ 009c
भारतं सह भार्याभ्यां खङ्गबाणधनुर्धरम् । 010a
विचित्रकवचं वीरं परमास्त्रविदं नृपम् । 010c
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥ 010e
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । 011a
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥ 011c
तदासाद्य महारण्यं मृगव्यालनिषेवितम् । 012a
तत्र मैथुनकालस्थं ददर्श मृगयूथपम् ॥ 012c
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः । 013a
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥ 013c
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । 014a
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥ 014c
स संयुक्तस्तया मृग्या मानुषीं वाचमीरयन् । 015a
क्षणेन पतितो भूमौ विललापातुरो मृगः ॥ 015c
मृग उवाच । 016
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि । 016a
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः ॥ 016c
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । 017a
विधिपर्यागतानर्थान्प्रज्ञावान्प्रतिपद्यते ॥ 017c
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । 018a
कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥ 018c
पाण्डुरुवाच । 019
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । 019a
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥ 019c
अच्छद्मनाऽमायया च मृगाणां वध इष्यते । 020a
स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे ॥ 020c
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः । 021a
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥ 021c
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । 022a
अगस्त्यस्याभिचारेण युष्माकं विहितो वधः ॥ 022c
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान् । 023a
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥ 023c
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । 024a
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥ 024c
मृग उवाच । 025
नाहं घ्नन्तं मृगन्राजन्विगर्हे चात्मकारणात् । 025a
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः ॥ 025c
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । 026a
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥ 026c
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम् । 027a
पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम् ॥ 027c
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम् । 028a
वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥ 028c
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । 029a
अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत ॥ 029c
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । 030a
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥ 030c
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । 031a
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥ 031c
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नतः । 032a
मुनिं मूलफलाहारं मृगवेषधरं नृप ॥ 032c
वसमानमरण्येषु नित्यं शमपरायणम् । 033a
त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यनागसः ॥ 033c
द्वयोर्नृशंसकर्तारमवशं काममोहितम् । 034a
जीवितान्तकरो भावो मैथुने समुपैष्यति ॥ 034c
अहं हि किन्दमो नाम तपसा भावितो मुनिः । 035a
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥ 035c
मृगो भत्वा मृगैः सार्धं चरामि गहने वने । 036a
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥ 036c
मृगरूपधरं हत्वा मामेवं काममोहितम् । 037a
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ॥ 037c
प्रियया सह संवासं प्राप्य कामविमोहितः । 038a
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥ 038c
अन्तकाले हि संवासं यया गन्तासि कान्तया । 039a
प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम् । 039c
भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति ॥ 039a
वर्तमानः सुखे दुःखं यथाऽहं प्रापितस्त्वया । 040c
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति ॥ 040a
वैशम्पायन उवाच । 041
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत । 041a
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत ॥ ॥ 041c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

1-123-23 रन्ध्रे विशस्त्रत्वव्यसनाक्रान्तत्वादिसमये शरान्न विमुञ्चन्तीति सम्बन्धः । किन्त्वेषां शत्रूणां वधकालः सर्वलोकप्रसिद्धः सङ्ग्राम आभिमुख्यादिमान्स एव प्रशश्यतेऽन्यो निन्द्यत इत्यर्थः ॥ 1-123-24 प्रमत्तमसावधानम् ॥ 1-123-32 ते त्वया ॥ 1-123-34 द्वयोः स्त्रीपुंसयोर्नृशंसं निन्द्यं मैथुनासक्तयोर्वधस्तस्य कर्तारम् ॥ 1-123-39 प्राप्तं त्वा त्वाम् ॥ त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥