अध्यायः 122

पाण्डोर्माद्र्या विवाहः । दिग्विजयश्च ॥ 1 ॥ वैशम्पायन उवाच । 001
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः । 001a
विवाहस्यापरस्यार्थे चकार मतिमान्मतिम् ॥ 001c
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः । 002a
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम् ॥ 002c
तमागतमभिश्रुत्य भीष्मं वाहीकपुङ्गवः । 003a
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः ॥ 003c
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च । 004a
मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम् ॥ 004c
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः । 005a
आगतं मां विजानीहि कन्यार्थिनमरिन्दम ॥ 005c
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी । 006a
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् ॥ 006c
युक्तरूपो हि सम्बन्धे त्वं नो राजन्वयं तव । 007a
एतत्सञ्चिन्त्य मद्रेश गृहाणास्मान्यथाविधि ॥ 007c
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः । 008a
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम ॥ 008c
पूर्वैः प्रवर्तितं किञ्चित्कुलेऽस्मिन्नृपसत्तमैः । 009a
साधु वा यदि वाऽसाधु तन्नातिक्रान्तुमुत्सहे ॥ 009c
व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः । 010a
न च युक्तं तथा वक्तुं भवान्देहीति सत्तम ॥ 010c
कुलधर्मः स नो वीर प्रमाणं परमं च तत् । 011a
तेन त्वां न ब्रवीम्येतदसन्दिग्धं वचोऽरिहन् ॥ 011c
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः । 012a
धर्म एष परो राजन्स्वयमुक्तः स्वयम्भुवा ॥ 012c
नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः । 013a
विदितेयं च ते शल्य मर्यादा साधुसम्मता ॥ 013c
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम् । 014a
रत्नानि च विचित्राणि शल्यायादात्सहस्रशः ॥ 014c
गजानश्वान्रथांश्चैव वासांस्याभरणानि च । 015a
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम् ॥ 015c
तत्प्रगृह्य धनं सर्वं शल्यः सम्प्रतीमानसः । 016a
ददौ तां समलङ्कृत्य स्वसारं कौरवर्षभे ॥ 016c
स तां माद्रीमुपादाय भीष्मः सागरगासुतः । 017a
आजगाम पुरीं धीमान्प्रविष्टो गजसाह्वयम् ॥ 017c
तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसम्मते । 018a
'विवाहं कारायामास भीष्मः पाण्डोर्महात्मनः ।' 018c
जग्राह विधिवत्पाणिं माद्र्याः पाण्डुर्नराधिपः ॥ 018e
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः । 019a
स्थापयामास तां भार्यां शुभे वेश्मनि भामिनीं ॥ 019c
स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः । 020a
कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ॥ 020c
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः । 021a
जिगीषया महीं पाण्डुर्निरक्रामत्पुरात्प्रभो ॥ 021c
स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च । 022a
धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान् । 022c
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोजितः ॥ 022e
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः । 023a
गजवाजिरथौघेन बलेन महताऽगमत् ॥ 023c
स राजा देवगर्भाभो विजिगीषुर्वसुन्धराम् । 024a
हृष्टपुष्टबलैः प्रायात्पाण्डुः शत्रूननेकशः ॥ 024c
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । 025a
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ 025c
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । 026a
प्रभूतहस्त्यश्वयुतां पदातिरथसङ्कुलाम् ॥ 026c
आगस्कारी महीपानां बहूनां बलदर्पितः । 027a
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः ॥ 027c
ततः कोशं समादाय वाहनानि च भूरिशः । 028a
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ 028c
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ । 029a
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥ 029c
तं शरौघमहाज्वालं शस्त्रार्चिषमरिन्दमम् । 030a
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥ 030c
ते ससेनाः ससेनेन विध्वंसितबला नृपाः । 031a
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः ॥ 031c
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । 032a
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ॥ 032c
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । 033a
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ 033c
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु । 034a
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ 034c
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । 035a
कम्लाजिनरत्नानि राङ्कवास्तरणानि च । 035c
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ 035e
तदादाय ययौ पाण्डुः पुनर्मदितवाहनः । 036a
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ 036c
शान्तनो राजसिंहस्य भरतस्य च धीमतः । 037a
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः ॥ 037c
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । 038a
ते नागपुरसिंहेन पाण्डुना करदीकृताः ॥ 038c
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । 039a
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ 039c
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः । 040a
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥ 040c
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः । 041a
नानायानसमानीतै रत्नैरुच्चावचैस्तदा ॥ 041c
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाऽऽविभिः । 042a
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ 042c
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । 043a
यथाऽर्हं मानयामास पौरजानपदानपि ॥ 043c
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । 044a
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ 044c
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः । 045a
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥ ॥ 045c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

1-122-8 मे वरः मम जामाता ॥ 1-122-14 शातकुम्भं काञ्चनम् । कृताकृतं घटितमघटितं च ॥ 1-122-15 व्यसृदत् प्रादात् ॥ 1-122-21 त्रिदशाः त्रिंशत् ॥ 1-122-40 नदूरमिव अदूरमिव । जयोत्साहेन मार्गश्रमाभावात् ॥ द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥