अध्यायः 121

पाण्डोः कुन्त्या विवाहः ॥ 1 ॥ वैशम्पायन उवाच । 001
सत्वरूपगुणोपेता धर्मारामा महाव्रता । 001a
दुहिता कुन्तिभोजस्य पृथा पृथुललोचना ॥ 001c
तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् । 002a
व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम् ॥ 002c
ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् । 003a
पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम ॥ 003c
ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी । 004a
ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् ॥ 004c
सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम् । 005a
आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः ॥ 005c
तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम् । 006a
तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा ॥ 006c
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत् । 007a
ततः कामपरीताङ्गी सकृत्प्रचलमानसा ॥ 007c
व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत् । 008a
तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः ॥ 008c
यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा । 009a
ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः ॥ 009c
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । 010a
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥ 010c
कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः । 011a
कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम् । 011c
स्वपुरं प्रेषयामास स राजा कुरुसत्तम ॥ 011e
ततो बलेन महता नानाध्वजपताकिना । 012a
स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः ॥ 012c
सम्प्राप्य नगरं राजा पाण्डुः कौरवनन्दनः । 013a
न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः ॥ ॥ 013c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥