अध्यायः 119
धृतराष्ट्रविवाहार्थं भीष्मविदुरसंवादः ॥ 1 ॥ धृतराष्ट्रस्य गान्धार्या विवाहः ॥ 2 ॥
भीष्म उवाच । 001
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । 001a
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥ 001c
रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः । 002a
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥ 002c
मया च सत्यवत्या च कृष्णेन च महात्मना । 003a
समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥ 003c
तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा । 004a
तथा मया विधातव्यं त्वया चैव न संशयः ॥ 004c
श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः । 005a
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥ 005c
कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः । 006a
उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥ 006c
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । 007a
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥ 007c
विदुर उवाच । 008
भवान्पिता भावन्माता भवान्नः परमो गुरुः । 008a
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥ 008c
वैशम्पायन उवाच । 009
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् । 009a
आराध्य वरदं देवं भगनेत्रहरं हरम् ॥ 009c
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा । 010a
इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः ॥ 010c
ततो गान्धारराजस्य प्रेषयामास भारत । 011a
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा ॥ 011c
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः । 012a
ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥ 012c
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम् । 013a
आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत ॥ 013c
ततः सा पटमादाय कृत्वा बहुगुणं तदा । 014a
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥ 014c
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया । 015a
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् ॥ 015c
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् । 016a
तां तदा धृतराष्ट्राय ददौ परमसत्कृताम् । 016c
भीष्मस्यानुमते चैव विवाहं समकारयत् ॥ 016e
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । 017a
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥ 017c
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः । 018a
तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥ 018c
'गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् । 019a
अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत् ॥ 019c
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ । 020a
नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा ॥ 020c
वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा । 021a
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥ 021c
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश । 022a
गान्धारराजः सुबलो भीष्मेण च वृतस्तदा ॥ 022c
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम् । 023a
तेजश्श्रर्वां सुश्रवां च तथैव निकृतिं शुभाम् ॥ 023c
शम्भ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः । 024a
एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः ॥ 024c
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः । 025a
अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम् ॥' ॥ 025c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥
1-119-5 यादवी यादवस्य कुन्तिभोजस्य अपत्यम् ॥ 1-119-11 प्रेषयामास दूतमिति शेषः ॥ 1-119-13 दित्सितं दातुमिष्टम् ॥ 1-119-14 बहुगुणं बहुधागुणितम् ॥ 1-119-15 नाभ्यसूयां पत्युरभिभवं न कुर्याम् ॥ एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥