अध्यायः 118

कञ्चित्कालं भीष्मेण राज्यपरिपालनानन्तरं पाण्डो राज्येऽभिषेकः ॥ 1 ॥ वैशम्पायन उवाच । 001
'धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि ।' 001a
एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । 001c
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥ 001e
ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च । 002a
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥ 002c
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । 003a
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ 003c
वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः । 004a
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥ 004c
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । 005a
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥ 005c
धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः । 006a
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥ 006c
मानक्रोधविहीनाश्च नरा लोभविवर्जिताः । 007a
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत ॥ 007c
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । 008a
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥ 008c
प्रसादशतसम्बाधं महेन्द्रपुरसन्निभम् । 009a
नदीषु वनखण्डेषु वापीपल्वलसानुषु । 009c
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥ 009e
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा । 010a
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः ॥ 010c
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः । 011a
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते ॥ 011c
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा । 012a
बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः ॥ 012c
भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते । 013a
बभूव रमणीयश्च चैत्ययूपशताङ्कितः ॥ 013c
स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः । 014a
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥ 014c
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । 015a
पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः ॥ 015c
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । 016a
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥ 016c
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । 017a
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥ 017c
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । 018a
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥ 018c
धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्मणि । 019a
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः ॥ 019c
इतिहासपुराणेषु नानाशिक्षासु बोधिताः । 020a
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः ॥ 020c
'वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः । 021a
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥ 021c
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । 022a
तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥ 022c
अर्थधर्मप्रधानासु विद्यासु विविधासु च । 023a
गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥' 023c
पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत् । 024a
अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः ॥ 024c
अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः । 025a
भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः ॥ 025c
'सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा । 026a
भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥' 026c
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसम्मितः । 027a
धर्मनित्यस्तथा राजन्धर्मं च परमं गतः ॥ 027c
प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । 028a
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ 028c
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । 029a
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥ 029c
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत । 030a
पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह ॥ 030c
'अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः । 031a
रूपयौवनसम्पन्नां सुतां सागरगासुतः ॥ 031c
सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् । 032a
सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥' 032c
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः । 033a
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥ ॥ 033c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

1-118-2 ऊर्ध्वसस्या प्रचुरसस्या ॥ 1-118-18 श्रमः शास्त्राभ्यासः । व्यायामो बाहुयुद्धाद्यभ्यासः ॥ 1-118-28 निर्वचनं प्रशंसा ॥ 1-118-30 पारसवत्वाच्छूद्रायां ब्राह्मणाज्जातत्वात् ॥ अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥