अध्यायः 117

माण्डव्यं ऋषिं ज्ञात्वा भीतेन राज्ञा तस्य शूलाद्विमोक्षणम् ॥ 1 ॥ अणीमाण्डव्यस्य यमेन विवादः ॥ 2 ॥ माण्डव्यं न यमस्य शापः ॥ 3 ॥ वैशम्पायन उवाच । 001
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । 001a
दोषतः कं गमिष्यामि न हि मेऽन्योपराध्यति ॥ 001c
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि । 002a
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप ॥ 002c
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । 003a
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ 003c
राजोवाच । 004
यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम । 004a
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ 004c
वैशम्पायन उवाच । 005
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । 005a
कृतप्रसादं राजा तं ततः समवतारयत् ॥ 005c
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । 006a
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ 006c
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । 007a
कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत् । 007c
पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत् ॥' 007e
स चातितपसा लोकान्विजिग्ये दुर्लभान्परैः ॥ 008ac
अणीमाण्डव्य इति च ततो लोकेषु गीयते । 009a
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् ॥ 009c
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुम् । 010a
किं नु तद्दुष्कृतं कर्म मया कृतमजानता ॥ 010c
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया । 011a
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ 011c
धर्म उवाच । 012
पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता । 012a
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥ 012c
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत् । 013a
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः ॥ 013c
अणीमाण्डव्य उवाच । 014
कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम् । 014a
तेनोक्तं धर्मराजेन बालभावे त्वया कृतम् ॥ 014c
अणीमाण्डव्य उवाच । 015
बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति । 015a
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः ॥ 015c
अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः । 016a
गरीयान्ब्राह्मणवधः सर्वभूतवधादपि ॥ 016c
शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि । 017a
मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम् ॥ 017c
आ चतुर्दशकाद्वर्षान्न भविष्यति पातकम् । 018a
परतः कुर्वतामेव दोष एव भविष्यति ॥ 018c
वैशम्पायन उवाच । 019
एतेन त्वपराधेन शापात्तस्य महात्मनः । 019a
धर्मो विदुररूपेण शूद्रयोनावजायत ॥ 019c
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । 020a
दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ ॥ 020c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

1-117-1 दोषतः कङ्गमिष्यामि न कमपि दोषिणं कथयामि । स्वकृतमे भुञ्जे इत्यर्थः ॥ 1-117-9 अणी शूलाग्रं तद्युक्तो माण्डव्यः ॥ 1-117-10 उपालभत गर्हितवान् ॥ 1-117-15 दिशो देशनाः धर्मशास्त्राणि यतो न प्रज्ञास्यति बालत्वात् ॥ 1-117-16 ब्राह्मणवधो ब्राह्मणपीडनम् ॥ 1-117-20 दीर्घदर्शी सर्वकालपरामर्शी । शमपरो निर्वैरः ॥ सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥