अध्यायः 116
माण्डव्योपाख्यानम् ॥ 1 ॥ राजाज्ञया माण्डव्यस्य शूलारोपणम् ॥ 2 ॥
जनमेजय उवाच । 001
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । 001a
कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत ॥ 001c
वैशम्पायन उवाच । 002
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । 002a
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ 002c
'स तीर्थयात्रां विचरन्नाजगाम यदृच्छया । 003a
सन्निकृष्टानि तीर्थानि ग्रामाणां यानि कानि च । 003c
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः ॥' 003e
स आश्रमपदद्वारि वृक्षमूले महातपाः । 004a
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥ 004c
तस्य कालेन महता तस्मिंस्तपसि वर्ततः । 005a
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥ 005c
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ । 006a
'तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः ॥ 006c
यस्मिन्नावसथे शेते स मुनिः संशितव्रतः ।' 007a
ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ॥ 007c
निधाय च भयाल्लीनास्तत्रैवानागते बले । 008a
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥ 008c
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः । 009a
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् ॥ 009c
कतरेण पथा याता दस्यवो द्विजसत्तम । 010a
तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम् ॥ 010c
तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः । 011a
न किञ्चिद्वचनं राजन्नब्रवीत्साध्वसाधु वा ॥ 011c
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम् । 012a
ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च ॥ 012c
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । 013a
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥ 013c
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । 014a
स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः ॥ 014c
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । 015a
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥ 015c
शूलस्थः स तु धर्मात्मा कालेन महता ततः । 016a
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥ 016c
धारयामास च प्राणानृषींश्च समुपानयत् । 017a
शूलाग्रे तप्यमानेन तपस्तेन महात्मना ॥ 017c
सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः । 018a
ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत । 018c
दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥ 018e
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि । 019a
येनेह समनुप्राप्तं शूले दुःखभयं महत् ॥ ॥ 019c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥
1-116-1 कस्य कीदृशस्य ॥ 1-116-6 लोप्त्रं लुप्यत इति व्युत्पत्त्या चोरापहृतं धनम् ॥ 1-116-8 बले राजसैन्ये ॥ 1-116-13 संयम्य चोरवन्निगृह्य ॥ 1-116-14 प्रोतोऽर्पितः ॥ 1-116-17 समुपानयात् स्वसमीपमिति शेषः ॥ 1-116-18 दर्शयन्तः स्वानि रूपामि प्रकाशयन्तः ॥ षोडशाधिकशततमोऽध्यायः ॥ 116 ॥