अध्यायः 115

अम्बिकायां व्यासाद्धृतराष्ट्रस्योत्पत्तिः ॥ 1 ॥ अम्बालिकायां पाण्डोरुत्पत्तिः ॥ 2 ॥ अम्बिकादास्यां विदुरस्योत्पत्तिः ॥ 3 ॥ वैशम्पायन उवाच । 001
ततः सत्यवती काले वधूं स्नातामृतौ तदा । 001a
संवेशयन्ती शयने शनैर्वचनमब्रवीत् ॥ 001c
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति । 002a
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति ॥ 002c
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । 003a
साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥ 003c
'ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः । 004a
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥ 004c
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । 005a
जगाम तस्याः शयनं विपुले तपसि स्थितः ॥ 005c
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता । 006a
विरूप इति वित्रस्ता सङ्कुच्यासीन्निमीलिता ॥ 006c
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः । 007a
सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥' 007c
तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने । 008a
बभ्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत् ॥ 008c
सम्भूव तया सार्धं मातुः प्रियचिकीर्षया । 009a
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥ 009c
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह । 010a
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥ 010c
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः । 011a
'प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥' 011c
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः । 012a
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥ 012c
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः । 013a
किन्तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥ 013c
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत् । 014a
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥ 014c
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् । 015a
'अपरस्यामपि पुनर्मम शोकविनाशनम् ॥ 015c
तस्मादवरजं पुत्रं जनयान्यं नराधिपम् । 016a
भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी ॥ 016c
अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम् ।' 017a
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥ 017c
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः । 018a
साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥ 018c
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । 019a
ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम ॥ 019c
'अम्बालिकां समाहूय तस्यां सत्यवती सुतम् । 020a
भूयो नियोजयामास सन्तानाय कुलस्य वै ॥ 020c
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे । 021a
कोन्वेष्यतीति ध्यायन्ती नियतां सम्प्रतीक्षते' ॥ 021c
ततस्तेनैव विधिना महर्षिस्तामपद्यत । 022a
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम् ॥ 022c
विवर्णा पाण्डुसङ्काशा समपद्यत भारत । 023a
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य भारत ॥ 023c
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् । 024a
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥ 024c
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति । 025a
नाम चास्यैतदेवेह भविष्यति शुभानने ॥ 025c
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः । 026a
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत् ॥ 026c
'कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः ।' 027a
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥ 027c
'भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः । 028a
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥ 028c
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै । 029a
इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥' 029c
तं माता पुनरेवान्यमेकं पुत्रमयाचत । 030a
तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥ 030c
ततः कुमारं सा देवी प्राप्तकालमजीजनत् । 031a
पाण्डुलक्षणसम्पन्नं दीप्यमानमिव श्रिया ॥ 031c
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः । 032a
'तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः ॥ 032c
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः । 033a
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ॥ 033c
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत । 034a
अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम् ॥ 034c
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत । 035a
नियता यदि कौसल्या भविष्यति पुनःशुभा ॥ 035c
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् । 036a
तां समाधाय वै भूयः स्नुषां सत्यवती पुनः ॥' 036c
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । 037a
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं ॥ 037c
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा । 038a
ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम् ॥ 038c
प्रेषयामास कृष्णाय ततः काशिपतेः सुता । 039a
सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च ॥ 039c
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह । 040a
'वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च ॥' 040c
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः । 041a
तया सहोषितो राजन्महर्षिः संशितव्रतः ॥ 041c
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । 042a
अयं च ते शुभे गर्भः श्रेयानुदरमागतः । 042c
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥ 042e
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । 043a
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥ 043c
धर्मो विदुररूपेण शापात्तस्य महात्मनः । 044a
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥ 044c
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् । 045a
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च ॥ 045c
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । 046a
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥ 046c
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । 047a
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ ॥ 047c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चादशाधिकशततमोऽध्यायः ॥ 115 ॥

1-115-42 अभुजिष्या अदासी ॥ 1-115-45 प्रलम्भमात्मस्थोने दासीनियोजनम् ॥ पञ्चादशाधिकशततमोऽध्यायः ॥ 115 ॥