अध्यायः 114
सत्यवत्या स्वस्मिन्कन्यात्वावस्थायां व्यासोत्पत्तिकथनम् ॥ 1 ॥ स्मरणमात्रादागतेन व्यासेन सह सत्यवत्याः संवादः ॥ 2 ॥ व्यासेन अम्बिकाम्बालिकलोः पुत्रोत्पादनाङ्गीकारः ॥ 3 ॥
भीष्म उवाच । 001
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये । 001a
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥ 001c
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । 002a
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥ 002c
'वैशम्पायन उवाच । 003
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम् । 003a
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥ 003c
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् । 004a
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु ॥ 004c
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत । 005a
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ ॥ 005c
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते । 006a
बाल एव गतः स्वर्गं भारतो भरतर्षभ ॥ 006c
इमे महिष्यौ तस्येह काशिराजसुते उभे । 007a
रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥ 007c
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च । 008a
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि ॥ 008c
भीष्म उवाच । 009
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः । 009a
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते ॥ 009c
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा । 010a
उत्सृजेयमहं प्राणान्न तु सत्यं कथञ्चन ॥ 010c
सत्यवत्युवाच । 011
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम । 011a
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम ॥ 011c
यथा तु नः कुलं चैव धर्मश्च न पराभवेत् । 012a
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि ॥ 012c
भीष्म उवाच । 013
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि । 013a
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥ 013c
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले । 014a
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते ॥ 014c
सा सत्यवति सम्पश्य धर्मं सत्यपरायणे । 015a
यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥' 015c
वैशम्पायन उवाच । 016
ततः सत्यवती भीष्मं वाचा संसज्जमानया । 016a
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥ 016c
सत्यमेतन्महाबाहो यथा वदसि भारत । 017a
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः ॥ 017c
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम् । 018a
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ॥ 018c
'यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः ।' 019a
तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम् । 019c
'शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ॥ 019e
न च विस्रम्भकथितं भवान्सूचितुमर्हति । 020a
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ॥ 020c
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल । 021a
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ॥ 021c
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत् । 022a
धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम ॥' 022c
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम । 023a
सा कदाचिदहं तत्र गता प्रथमयौवनम् ॥ 023c
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः । 024a
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥ 024c
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । 025a
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः । 025c
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥ 025e
तमहं शापभीता च पितुर्भीता च भारत । 026a
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ 026c
'प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान् । 027a
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् ॥ 027c
पुरस्तादरुणश्चैव तरुणः सम्प्रकाशते । 028a
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता ॥ 028c
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः । 029a
पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि ॥' 029c
अभिभूय स मां बालां तेजसा वशमानयत् । 030a
तमसा लोकमावृत्य नौगतामेव भारत ॥ 030c
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । 031a
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥ 031c
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । 032a
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ 032c
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः । 033a
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः ॥ 033c
विस्मिता व्यथिता चैव प्रादामात्मानमेव च । 034a
ततस्तदा महात्मा स कन्यायां मयि भारत । 034c
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः ॥' 034e
पाराशर्यो महायोगी स बभूव महानृषिः । 035a
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ॥ 035c
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । 036a
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥ 036c
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । 037a
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः ॥ 037c
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः । 038a
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥ 038c
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति । 039a
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥ 039c
तव ह्यनुमते भीष्म नियतं स महातपाः । 040a
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥ 040c
वैशम्पायन उवाच । 041
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । 041a
'देशकालौ च जानासि क्रियतामर्थसिद्धये ।' 041c
धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति ॥ 041e
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । 042a
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥ 042c
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान् । 043a
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ॥ 043c
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम् । 044a
वैशम्पायन उवाच । 044
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ॥ 044c
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् । 045a
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ॥ 045c
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन । 046a
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम् ॥ 046c
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत । 047a
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु ॥ 047c
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । 048a
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥ 048c
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । 049a
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥ 049c
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । 050a
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम् ॥ 050c
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः । 051a
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥ 051c
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम् । 052a
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे ॥ 052c
तेषां पिता यथा स्वीमी तथा माता न संशयः । 053a
विधानविहितः स त्वं यथा मे प्रथमः सुतः ॥ 053c
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः । 054a
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ॥ 054c
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे । 055a
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः ॥ 055c
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने । 056a
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च ॥ 056c
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ । 057a
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ॥ 057c
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि । 058a
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे ॥ 058c
रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः । 059a
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ॥ 059c
अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च । 060a
व्यास उवाच । 060
वेत्थ धर्मं सत्यवति परं चापरमेव च ॥ 060c
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः । 061a
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ॥ 061c
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम् । 062a
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ॥ 062c
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया । 063a
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ॥ 063c
नहि मामव्रतोपेता उपेयात्काचिदङ्गना । 064a
सत्यवत्युवाच । 064
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु ॥ 064c
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति । 065a
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता ॥ 065c
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो । 066a
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति ॥ 066c
व्यास उवाच । 067
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः । 067a
विरूपतां मे सहतां तयोरेतत्परं व्रतम् ॥ 067c
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । 068a
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥ 068c
'तस्यापि च शतं पुत्रा भवितारो न संशयः । 069a
गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः ॥' 069c
वैशम्पायन उवाच । 070
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा । 070a
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता ॥ 070c
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः । 071a
ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ॥ 071c
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् । 072a
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत् ॥ 072c
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् । 073a
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् ॥ 073c
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये । 074a
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा ॥ 074c
नष्टं च भारतं वंशं पुनरेव समुद्धर । 075a
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ॥ 075c
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः । 076a
'एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा ॥' 076c
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । 077a
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ ॥ 077c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
1-114-16 संसज्जमानया स्खलनवत्या ॥ 1-114-17 विश्वासादन्तरङ्गत्वबुद्धेः । सन्तानाय विस्ताराय ॥ 1-114-18 आपद्धर्ममवेक्ष्येति शेषः ॥ 1-114-38 व्यक्तं निःसंशयम् ॥ 1-114-42 अनुबध्यतेऽनेनेत्यनुबन्धः फलं ॥ 1-114-45 काली सत्यवती ॥ 1-114-47 प्रस्रवैः स्नेहस्रुतस्तनैः ॥ 1-114-53 विधानविहितः पूर्वपुण्यप्रसूतः ॥ 1-114-56 व्यपेक्षया स्नेहानुबन्धेन ॥ 1-114-58 आनृशंस्यादनैष्ठुर्यात् ॥ 1-114-63 देव्यौ राजभार्ये ॥ 1-114-74 यथा भीष्मेणोक्तं तथा मां प्रापय इष्टार्थेन योजय ॥ 1-114-76 उद्वक्ष्यति धुरं धुर उद्वहनं करिष्यति ॥ चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥