अध्यायः 112

विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः ॥ 1 ॥ वैशम्पायन उवाच । 001
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । 001a
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥ 001c
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते । 002a
धर्मं च पितृवंशं च मातृवंशं च भामिनी । 002c
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥ 002e
'दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे । 003a
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः ।' 003c
त्वयि पिण्डश्च कीर्तिश्च सन्तानश्च प्रतिष्ठितः ॥ 003e
'भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् ।' 004a
यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । 004c
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥ 004e
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च । 005a
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः ॥ 005c
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये । 006a
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥ 006c
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर । 007a
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥ 007c
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । 008a
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥ 008c
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । 009a
रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥ 009c
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । 010a
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि ॥ 010c
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । 011a
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥ 011c
वैशम्पायन उवाच । 012
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः । 012a
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः ॥ 012c
असंशयं परो धर्मस्त्वया मातरुदाहृतः । 013a
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां ॥ 013c
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे । 014a
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥ 014c
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः । 015a
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ॥ 015c
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः । 016a
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥ 016c
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् । 017a
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत् ॥ 017c
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् । 018a
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ॥ 018c
'तन्न जात्वन्यथा कुर्यां लोकानामपि सङ्क्षये । 019a
अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च ॥' 019c
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । 020a
माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥ 020c
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । 021a
इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा ॥ 021c
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम् । 022a
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम् ॥ 022c
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । 023a
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥ 023c
'आत्मनश्च हितं तात प्रियं च मम भारत ।' 024a
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । 024c
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥ 024e
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः । 025a
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥ 025c
शान्तनोरपि सन्तानं यथा स्यादक्षयं भुवि । 026a
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥ 026c
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः । 027a
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥ ॥ 027c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

1-112-11 अभिषिच्यस्व अभिषेचय । आत्मानमिति शेषः । कुरु अङ्गीकुरु । मा निमज्जीर्मा निमज्जय ॥ 1-112-14 त्वदन्तरेत्वन्निमित्तम् ॥ 1-112-20 भूरिद्रविणतेजसा बहुबलोत्साहवता ॥ द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥