अध्यायः 111

विचित्रवीर्यस्य अम्बिकाम्बालिकाभ्यां विवाहः ॥ 1 ॥ विचित्रवीर्यमरणम् ॥ 2 ॥ वैशम्पायन उवाच । 001
अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा । 001a
न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥ 001c
अम्बिकाम्बालिके चैव परिणीयाग्निसन्निधौ । 002a
'तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः ।' 002c
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥ 002e
ते चापि बृहतीश्यामे नीलकुञ्चितमूर्धजे । 003a
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥ 003c
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । 004a
विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे ॥ 004c
'अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते ।' 005a
स चाश्विरूपसदृशो देवतुल्यपराक्रमः । 005c
सर्वासामेव नारीणां चित्तप्रमथनो रहः ॥ 005e
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । 006a
विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥ 006c
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । 007a
जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥ 007c
धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः । 008a
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ॥ 008c
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः । 009a
ऋत्विग्बिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥ 009c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकादशाधिकशततमोध्यायः ॥ 111 ॥

1-111-3 बृहतीश्यामे बृहतीपुष्पवद्रक्तश्यामे ॥ 1-111-4 प्रतिरूपः अनुरूपः ॥ एकादशाधिकशततमोऽध्यायः ॥ 111 ॥