अध्यायः 109

भीष्मस्य काशिपतिकन्याहरणार्थं वाराणसीगमनम् ॥ 1 ॥ कन्यां हृतवता भीष्मेण युद्धे राज्ञां पराजयः ॥ 2 ॥ मध्येमार्गं साल्वपराजयः ॥ 3 ॥ विचित्रवीर्यविवाहोपक्रमे तमनिच्छन्त्या ज्येष्ठाया अम्बयाः साल्वं प्रति गमनम् ॥ 4 ॥ तेन प्रत्याख्यातायाः पुनर्भीष्मं प्राप्ताया अम्ब्रायाः भीष्मेण निराकरणम् ॥ 5 ॥ भीष्मजिघांसया तपस्यन्त्या अम्बायाः प्रसन्नात्कुमारान्मालाप्राप्तिः ॥ 6 ॥ वैशम्पायन उवाच । 001
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव । 001a
पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥ 001c
'तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले ।' 002a
सम्प्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः । 002c
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥ 002e
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः । 003a
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम् ॥ 003c
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित् । 004a
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः ॥ 004c
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । 005a
ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः ॥ 005c
'तासां कामेन सम्मत्ताः सहिताः काशिकोसलाः । 006a
वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति ॥' 006c
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः । 007a
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम् ॥ 007c
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः । 008a
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया ॥ 008c
वृद्धः परमधर्मात्मा वलीपलितधारणः । 009a
किङ्कारणमिहायातो निर्लज्जो भरतर्षभः ॥ 009c
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत । 010a
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि ॥ 010c
इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः । 011a
वैशम्पायन उवाच । 011
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत ॥ 011c
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः । 012a
उवाच च महीपालान्राजञ्जलदनिःस्वनः ॥ 012c
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः । 013a
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः ॥ 013c
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि । 014a
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि ॥ 014c
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च । 015a
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते ॥ 015c
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे । 016a
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम् ॥ 016c
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । 017a
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥ 017c
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । 018a
ते यतध्वं परं शक्त्या विजयायेतराय वा ॥ 018c
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः । 019a
वैशम्पायन उवाच । 019
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् ॥ 019c
सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम् । 020a
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥ 020c
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । 021a
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥ 021c
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । 022a
आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥ 022c
ताराणामिव सम्पातो बभूव जनमेजय । 023a
भूषणानां च सर्वेषां कवचानां च सर्वशः ॥ 023c
सवर्मभिर्भूषणैश्च प्रकीर्यद्भिरितस्ततः । 024a
सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः ॥ 024c
सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान् । 025a
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥ 025c
प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः । 026a
ततः समभवद्युद्धं तेषां तस्य च भारत । 026c
एकस्य च बहूनां च तुमुलं रोमहर्षणम् ॥ 026e
ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन् । 027a
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा ॥ 027c
अच्छिनच्छरवर्षेण महता लोमवाहिना । 028a
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम् ॥ 028c
ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः । 029a
स तं बाणमयं वर्षं शरैरावार्य सर्वतः ॥ 029c
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः । 030a
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः ॥ 030c
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन् । 031a
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम् ॥ 031c
पश्यतां लोकवीराणां शरशक्तिसमाकुलम् । 032a
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि ॥ 032c
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः । 033a
तस्यातिपुरुषं कर्म लाघवं रथचारिणः ॥ 033c
रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् । 034a
'अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः ॥ 034c
आनिनाय स काश्यस्य सुताः सागरगासुतः ।' 035a
तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः ॥ 035c
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति । 036a
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः ॥ 036c
अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे । 037a
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा ॥ 037c
वासितामनुसम्प्राप्तो यूथपो बलिनां वरः । 038a
स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः ॥ 038c
साल्वराजो महाबाहुरमर्षेण प्रचोदितः । 039a
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः ॥ 039c
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन् । 040a
विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत् ॥ 040c
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । 041a
निवर्तयामास रथं साल्वं प्रति महारथः ॥ 041c
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । 042a
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे ॥ 042c
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे । 043a
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥ 043c
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । 044a
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥ 044c
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः । 045a
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन् ॥ 045c
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः । 046a
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम् ॥ 046c
क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः । 047a
क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत ॥ 047c
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । 048a
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥ 048c
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । 049a
तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते ॥ 049c
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः । 050a
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥ 050c
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान् । 051a
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा ॥ 051c
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् । 052a
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ ॥ 052c
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा । 053a
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ॥ 053c
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः । 054a
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः ॥ 054c
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः । 055a
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम् ॥ 055c
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः । 056a
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ॥ 056c
वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान् । 057a
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः ॥ 057c
आनयामास काश्यस्य सुताः सागरगासुतः । 058a
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः ॥ 058c
यथा दुहितश्चैव परिगृह्य ययौ कुरून् । 059a
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया ॥ 059c
ताः सर्वगुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । 060a
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥ 060c
एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । 061a
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥ 061c
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् । 062a
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता । 062c
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा ॥ 062e
मया सौभपतिः पूर्वं मनसा हि वृतः पतिः । 063a
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥ 063c
मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे । 064a
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर ॥ 064c
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । 065a
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥ 065c
'अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता । 066a
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना ॥ 066c
निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी । 067a
इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् ॥' 067c
विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः । 068a
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम् ॥ 068c
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । 069a
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥ 069c
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः । 070a
विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथम्चन ॥ 070c
'अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम् । 071a
विचित्रवीर्य उवाच । 071
पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः । 071c
परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि ॥ 071e
भीष्म उवाच । 072
प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः । 072a
अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव ॥ 072c
इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत् । 073a
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते ॥ 073c
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् । 074a
अन्यभावगतां चापि को नारीं वासयेद्गृहे ॥ 074c
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् । 075a
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि ॥ 075c
न सम्बन्धस्तदावाभ्यां भविता वै कथञ्चन । 076a
वैशम्पायन उवाच । 076
इत्युक्ता सा गता तत्र सखीभिः परिवारिता ॥ 076c
निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति । 077a
अथाम्बा साल्वमागम्य साऽब्रवीत्प्रतिपूज्य तं ॥ 077c
पुरा निर्दिष्टभावा त्वामागतास्मि वरानन । 078a
देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् ॥ 078c
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् ॥ 079ac
वैशम्पायन उवाच । 080
तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत् । 080a
निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु ॥ 080c
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् । 081a
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् ॥ 081c
वैशम्पायन उवाच । 082
इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम् । 082a
अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता ॥ 082c
क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः । 083a
यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसम्पदा ॥ 083c
राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम् । 084a
अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः ॥ 084c
तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया । 085a
ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः ॥ 085c
भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु । 086a
एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा ॥ 086c
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् । 087a
तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः ॥ 087c
अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा । 088a
अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि ॥ 088c
नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे । 089a
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति ॥ 089c
भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति । 090a
नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता ॥ 090c
ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता । 091a
अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः ॥ 091c
गमनागमनेनैवमनैषीत्षट् समा नृप । 092a
अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी ॥ 092c
पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा । 093a
श्रोणीभरालसगमा राकाचन्द्रनिभानना ॥ 093c
वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा । 094a
सा ततो द्वादश समा बाहुदामभितो नदीम् । 094c
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे ॥ 094e
सङ्क्षिप्तकरणा तत्र तप आस्थाय सुव्रता । 095a
पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः ॥ 095c
तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम् । 096a
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान् ॥ 096c
अनन्तसेनो भगवान्कुमारो वरदः प्रभुः । 097a
मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् ॥ 097c
एषा पुष्करिणी दिव्या यथावत्समुपस्थिता । 098a
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति ॥ 098c
एतां चैव मया दत्तां मालां यो धारयिष्यति । 099a
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति ॥ ॥ 099c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

1-109-13 आहूयेति ब्राह्मः ॥ 1-109-14 मिथुनेन गृहीतेनेत्यार्षः ॥ 1-109-15 वित्तेनेत्यासुरः । बलेनेति राक्षसः । अनुमान्येति गान्धर्वः । प्रमत्तामिति पैशाचः । स्वयमन्ये इति प्राजापत्यः ॥ 1-109-16 आर्षं विधिं यज्ञम् । तेन दैव उक्तः । अष्टमं राक्षसं विवाहम् ॥ 1-109-17 प्रशंसति । स्वयंवरमिति ॥ 1-109-24 प्रकीर्यद्भिर्भूषणैरुपलक्षिता अनुसस्रुरिति तृतीयेनान्वयः ॥ 1-109-43 वृषौ रेतःसेककामौ गजौ गोवृषावेव वा तत्साहचर्याद्वासिता पुष्पिणी गौस्तदन्तरे तन्निमित्तम् ॥ 1-109-52 जीवन्तं प्राणमात्रावशेषितम् ॥ 1-109-58 काश्यस्य काशिराजस्य । अनुजाः कनिष्ठाः ॥ 1-109-71 अम्बां दृष्ट्वेति शेषः । अब्रवीत् भीष्ममिति शेषः ॥ नवाधिकशततमः ॥ 109 ॥