अध्यायः 108
शान्तनुसत्यवतीविवाहः ॥ 1 ॥ चित्राङ्गदविचित्रवीर्ययोरुत्पत्तिः ॥ 2 ॥ शान्तनुमरणम् ॥ 3 ॥ चित्राङ्गदमरणम् ॥ 4 ॥ विचित्रवीर्यस्य राज्येऽभिषेकः ॥ 5 ॥
वैशम्पायन उवाच । 001
'चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम् । 001a
विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ॥' 001c
ततो विवाहे निर्वृत्ते स राजा शान्तनुर्नृपः । 002a
तां कन्यां रूपसम्पन्नां स्वगृहे सन्न्यवेशयत् ॥ 002c
ततः शान्तनवो धीमान्सत्यवत्यामजायत । 003a
वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः ॥ 003c
अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः । 004a
विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥ 004c
अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे । 005a
स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान् ॥ 005c
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम् । 006a
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥ 006c
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् । 007a
मनुष्यं न हि मेन स कञ्चित्सदृशमात्मनः ॥ 007c
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा । 008a
गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा ॥ 008c
गन्धर्व उवाच । 009
'त्वं वै सदृशनामासि युद्धं देहि नृपात्मज । 009a
नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥ 009c
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः । 010a
आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम ॥ 010c
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ' । 011a
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥ 011c
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः । 012a
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥ 012c
तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले । 013a
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥ 013c
स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम् । 014a
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥ 014c
तस्मिन्पुरुषशार्दूले निहते भूरितेजसि । 015a
भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत् ॥ 015c
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् । 016a
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥ 016c
विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः । 017a
अन्वशासन्महाराज पितृपैतामहं पदम् ॥ 017c
स धर्मशास्त्रकुशलं भीष्मं शान्तनवं नृपः । 018a
पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥ ॥ 018c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥