अध्यायः 106

स्वगोहर्तॄणां वसूनां वसिष्ठेन शापः ॥ 1 ॥ पुनस्तत्प्रार्थनया तुष्टने वसिष्टेन शापसङ्कोचः ॥ 2 ॥ गङ्गाया भीष्मेण सह स्वलोकगमनम् ॥ 3 ॥ शान्तनुरुवाच । 001
आपवो नाम कोन्वेष वसूनां किं च दुष्कृतम् । 001a
'शशाप यस्मात्कल्याणि स वसूंश्चारुदर्शने ।' 001c
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः ॥ 001e
अनेन च कुमारेण त्वया दत्तेन किं कृतम् । 002a
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥ 002c
ईशा वै सर्वलोकस्य वसवस्ते च वै कथम् । 003a
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥ 003c
वैशम्पायन उवाच । 004
एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत् । 004a
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ ॥ 004c
गङ्गोवाच । 005
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम । 005a
वसिष्ठनामा स मुनिः ख्यात आपव इत्युत ॥ 005c
तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम् । 006a
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥ 006c
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम । 007a
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥ 007c
दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता । 008a
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥ 008c
अनुग्रहार्थं जगतः सर्वकामदुहां वराम् । 009a
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥ 009c
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते । 010a
चचार पुण्ये रम्ये च गौरपेतभया तदा ॥ 010c
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ । 011a
पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम् ॥ 011c
ते सदारा वनं तच्च व्यचरन्त समन्ततः । 012a
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥ 012c
तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम । 013a
सञ्चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥ 013c
नन्दिनीं नाम राजेन्द्र सर्वकामधुगुत्तमाम् । 014a
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा ॥ 014c
द्यवे वै दर्शयामास तां गां गोवृषभेक्षण । 015a
आपीनां च सुदोग्ध्रीं च सुवालधिखुरां शुभां ॥ 015c
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च । 016a
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी ॥ 016c
दर्शयामास राजेन्द्र पुरा पौरवनन्दन । 017a
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ॥ 017c
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् । 018a
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा ॥ 018c
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् । 019a
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ॥ 019c
दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः । 020a
वैशम्पायन उवाच । 020
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा ॥ 020c
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् । 021a
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ॥ 021c
नाम्नाजितवती नाम रूपयौवनशालिनी । 022a
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः ॥ 022c
दुहिता प्रथिता लोके मानुषे रूपसम्पदा । 023a
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् ॥ 023c
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन । 024a
यावदस्याः पयः पीत्वा सा सखी मम मानद ॥ 024c
मानुषेषु भवत्वेका जरारोगविवर्जिता । 025a
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित ॥ 025c
प्रियात्प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन । 026a
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ॥ 026c
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् । 027a
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ॥ 027c
ऋषेस्तस्य तपस्वीव्रं न शशाक निरीक्षितुम् । 028a
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥ 028c
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः । 029a
न चापश्यत्स गां तत्र सवत्सां काननोत्तमे ॥ 029c
ततः स मृगयामास वने तस्मिंस्तपोधनः । 030a
नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः ॥ 030c
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः । 031a
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥ 031c
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् । 032a
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥ 032c
एवं शशाप भगवान्वसूंस्तान्भरतर्षभ । 033a
वशं क्रोधस्य सम्प्राप्त आपवो मुनिसत्तमः ॥ 033c
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे । 034a
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥ 034c
महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः । 035a
'एवं शप्तास्ततस्तेन मुनिना यामुनेन वै ॥ 035c
अष्टौ समस्ता वसवो दिवो दोषेण सत्तम ।' 036a
अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः ॥ 036c
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः । 037a
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ॥ 037c
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात् । 038a
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥ 038c
उवाच च स धर्मात्मा शप्ता यूयं धरादयः । 039a
अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ ॥ 039c
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति । 040a
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणः ॥ 040c
नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रुवम् । 041a
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥ 041c
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः । 042a
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥ 042c
एवमुक्त्वा वसून्सर्वान्सजगाम महानृषिः । 043a
ततो मामुपजग्मुस्ते समेता वसवस्तदा ॥ 043c
अयाचन्त च मां राजन्वरं तच्च मया कृतम् । 044a
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥ 044c
एवं तेषामहं सम्यक् शप्तानां राजसत्तम । 045a
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥ 045c
अयं शापादृषेस्तस्य एक एव नृपोत्तम । 046a
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥ 046c
अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति । 047a
अहं च ते भविष्यामि आह्वानोपगता नृप ॥ 047c
वैशम्पायन उवाच । 048
एतदाख्याय सा देवी तत्रैवान्तरधीयत । 048a
आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥ 048c
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । 049a
द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः ॥ 049c
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः । 050a
तस्याहं कीर्तयिष्यामि शान्तनोरधिकान्गुणान् ॥ 050c
महाभाग्यं च नृपतेर्भारतस्य महात्मनः । 051a
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥ ॥ 051c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥

1-106-8 गां प्रजाता नन्दिनीं जनितवती ॥ 1-106-15 द्यवे द्युसञ्ज्ञाय वसवे । वालधिः पुच्छम् ॥ 1-106-16 वसुनन्दिनी वसुप्रिया ॥ 1-106-28 प्रपातो वसिष्ठशापरूपः ॥ 1-106-41 न प्रजास्यत्यात्मनः प्रजेच्छां न करिष्यति । क्यजन्तोयम् ॥ षडधिकशततमोऽध्यायः ॥ 106 ॥