अध्यायः 104
समयबन्धपूर्वकं गङ्गाशान्तन्वोर्विवाहः ॥ 1 ॥
वैशम्पायन उवाच । 001
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च । 001a
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा ॥ 001c
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम् । 002a
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता ॥ 002c
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम् । 003a
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम् ॥ 003c
कालोऽयमिति मत्वा सा वसूनां शापचोदिता । 004a
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा ॥ 004c
गङ्गोवाच । 005
भविष्यामि महीपाल महिषी ते वशानुगा । 005a
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथञ्चन ॥ 005c
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम् । 006a
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ॥ 006c
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव । 007a
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥ 007c
एष मे समयो राजन्भज मां त्वं यथेप्सितम् । 008a
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो ॥ 008c
वैशम्पायन उवाच । 009
तथेति सा यदा तूक्ता तदा भरतसत्तम । 009a
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥ 009c
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः । 010a
रथमारोप्य तां देवीं जगाम स तया सह ॥ 010c
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा । 011a
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी ॥ 011c
न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् । 012a
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ॥ 012c
उपचारेण च रहस्तुतोष जगतीपतिः । 013a
स राजा परमप्रीतः परमस्त्रीप्रलालितः ॥ 013c
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी । 014a
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी ॥ 014c
भाग्योपनतकामस्य भार्या चोपनताऽभवत् । 015a
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः ॥ 015c
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः । 016a
राजानं रमयामास यथा रज्येत स प्रभुः ॥ 016c
स राजा रतिसक्तोऽभूदुत्तमस्त्रीगुणैर्हृतः ॥ ॥ 017ac
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥