अध्यायः 103

प्रतीपेन गङ्गायाः स्नुषात्वेन परिग्रहः ॥ 1 ॥ शान्तनूत्पत्तिः ॥ 2 ॥ तस्य राज्येऽभिषेकः ॥ 3 ॥ मृगयार्थं गतस्य शान्तनोर्गङ्गया संवादः ॥ 4 ॥

वैशम्पायन उवाच । 001
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा । 001a
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन् ॥ 001c
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी । 002a
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥ 002c
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी । 003a
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥ 003c
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम् । 004a
'वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् ।' 004c
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥ 004e
स्त्र्युवाच । 005
त्वामहं कामये राजन्भजमानां भजस्व माम् । 005a
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥ 005c
प्रतीप उवाच । 006
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि । 006a
न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम् ॥ 006c
'यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम् । 007a
निरयान्नैव मुच्यते यावदाभूतसम्प्लवम् ॥' 007c
स्त्र्युवाच । 008
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् । 008a
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम् ॥ 008c
प्रतीप उवाच । 009
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम् । 009a
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥ 009c
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने । 010a
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥ 010c
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः । 011a
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥ 011c
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम् । 012a
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥ 012c
स्त्र्युवाच । 013
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते । 013a
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम् ॥ 013c
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । 014a
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥ 014c
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम् । 015a
समयेनेह धर्मज्ञ आचरेयं च यद्विभो ॥ 015c
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् । 016a
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम् ॥ 016c
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः । 017a
वैशम्पायन उवाच । 017
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । 017c
'अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा ॥' 017e
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत् । 018a
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ॥ 018c
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन । 019a
'प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत ॥ 019c
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी । 020a
ततस्तु दशमे मासि प्राजायत रविप्रभम् ॥ 020c
कुमारं देवगर्भाभं प्रतीपमहिषी तदा ।' 021a
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक् ॥ 021c
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः । 022a
'तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः ॥ 022c
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा । 023a
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् ॥ 023c
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा । 024a
ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः ॥ 024c
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः । 025a
धनुर्वेदे च वेदे च गतिं स परमा गतः ॥ 025c
यौवनं चापि सम्प्राप्तः कुमारो वदतां वरः ।' 026a
संस्मरंश्चाक्षयाल्ँलोकान्विजातान्स्वेन कर्मणा ॥ 026c
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः । 027a
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् ॥ 027c
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव । 028a
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ॥ 028c
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया । 029a
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने ॥ 029c
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ । 030a
मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥ 030c
एवं सन्दिश्य तनयं प्रतीपः शान्तनुं तदा । 031a
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥ 031c
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः । 032a
'बभूव सर्वलोकस्य सत्यवागिति सम्मतः ॥ 032c
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः । 033a
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥ 033c
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित् । 034a
वशे चक्रे महीमेको विजित्य वसुधाधिपान् ॥ 034c
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः । 035a
ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः ॥ 035c
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् । 036a
रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि ॥ 036c
वयोरूपेण सम्पन्नः पौरुषेण बलेन च । 037a
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च ॥ 037c
वर्तमानश्च सत्येन सर्वधर्मविशारदः । 038a
तं महीपं महीपाला राजराजमकुर्वत ॥ 038c
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधनाः । 039a
श्रिया भरतशार्दूल समपद्यन्त भूमिपाः ॥ 039c
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत । 040a
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ॥ 040c
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः । 041a
एवं पशुवराहाणां तथैव मृगपक्षिणाम् ॥ 041c
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः । 042a
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ॥ 042c
स एव राजा सर्वेषां भूतानामभवत्पिता । 043a
स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः ॥ 043c
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले । 044a
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥ 044c
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः । 045a
स वनेषु च रम्येषु शैलप्रस्रवणेषु च ॥' 045c
चचार मृगयाशीलः शान्तनुर्वनगोचरः । 046a
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ॥ 046c
गङ्गामनु चचारैकः सिद्धचारणसेविताम् । 047a
स कदाचिन्महाराज ददर्श परमां स्त्रियम् ॥ 047c
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम् । 048a
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ॥ 048c
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् । 049a
'स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने ॥ 049c
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् । 050a
रूपेण वयसा कान्त्या शरीरावयवैस्तथा ॥ 050c
हावभावविलासैश्च लोचनाञ्चलविक्रियैः । 051a
श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा ॥ 051c
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च । 052a
कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम् ॥ 052c
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः । 053a
सा च शान्तनुमभ्यागादलक्ष्मीमपकर्षती ॥' 053c
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसम्पदा । 054a
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥ 054c
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् । 055a
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥ 055c
'गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी । 056a
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा ॥ 056c
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः । 057a
रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः ॥' 057c
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा । 058a
देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः ॥ 058c
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे । 059a
'याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे ॥ 059c
त्वां गता हि मम प्राणा वसु यन्मेऽस्ति किञ्चन ।' 060a
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने ॥ ॥ 060c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

1-103-1 तत इति ॥ 1-103-8 दिव्यां दिवि भवाम् ॥ 1-103-9 निवृत्तं निरस्तम् ॥ 1-103-10 आश्लिष्टा सङ्गता ॥ 1-103-15 समयेन नियमेन ॥ 1-103-16 न मीमांसेत न विचारयेत् ॥ 1-103-22 शान्तस्योपरतस्य वंशस्य सन्तानो विस्तार इति शान्ततनुः । तकारलोपेन शान्तनुरिति नाम ॥ 1-103-26 संस्मरन्निति व्यवहितमपि ज्ञानबलेन जानातीत्यर्थः ॥ 1-103-29 नानुयोक्तव्या न प्रष्टव्या ॥ त्र्यधिकशततमोऽध्यायः ॥ 103 ॥