अध्यायः 102
महाभिषगुपाख्यानम् ॥ 1 ॥ महाभिषग्गङ्गयोः शापः ॥ 2 ॥ अष्टवसूनां गङ्गायाश्च संवादः ॥ 3 ॥
वैशम्पायन उवाच । 001
इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः । 001a
महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः ॥ 001c
सोऽश्वमेधसहस्रेण राजसूयशतेन च । 002a
तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः ॥ 002c
ततः कदाचिद्ब्रह्माणमुपासाञ्चक्रिरे सुराः । 003a
तत्र राजर्षयो ह्यासन्स च राजा महाभिषक् ॥ 003c
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् । 004a
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥ 004c
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा । 005a
महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥ 005c
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक् । 006a
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥ 006c
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते । 007a
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति ॥ 007c
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते । 008a
वैशम्पायन उवाच । 008
स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान् ॥ 008c
प्रतीपं रोचयामास पितरं भूरितेजसम् । 009a
सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम् ॥ 009c
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा । 010a
सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप ॥ 010c
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः । 011a
तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा ॥ 011c
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् । 012a
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि ॥ 012c
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना । 013a
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् ॥ 013c
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा । 014a
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह ॥ 014c
न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना । 015a
त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि ॥ 015c
न मानुषीणां जठरं प्रविशेम वयं शुभे । 016a
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम् ॥ 016c
गङ्गोवाच । 017
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति । 017a
वसव ऊचुः । 017
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः । 017c
भविता मानुषे लोके स नः कर्ता भविष्यति ॥ 017e
गङ्गोवाच । 018
ममाप्येवं मतं देवा यथा मां वदथानघाः । 018a
प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम् ॥ 018c
वसव ऊचुः । 019
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि । 019a
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥ 019c
जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः । 020a
शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः ॥ 020c
गङ्गोवाच । 021
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् । 021a
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥ 021c
वसव ऊचुः । 022
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् । 022a
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥ 022c
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः । 023a
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥ 023c
एवं ते समयं कृत्वा गङ्गया वसवः सह । 024a
जग्मुः संहृष्टमनसो यथासङ्कल्पमञ्जसा ॥ ॥ 024c
इति श्रीमन्महाभारते आदिप्रवमि सम्भवपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥
1-102-6 अपध्यातः शप्तः ॥ 1-102-10 विध्वस्तवपुषो दिवश्च्युतत्वात् ॥ 1-102-14 अत्यभिसृता अतिक्रान्तवन्तः । वक्ष्यमाणेन तद्धेनुहरणेनेति शेषः ॥ 1-102-19 नचिरकालं शीघ्रम् । नोऽस्माकम् ॥ 1-102-22 तुरीयार्धमष्टमांशम् ॥ द्व्यधिकशततमोऽध्यायः ॥ 102 ॥