अध्यायः 101 भरतचरित्रकथनम् ॥ 1 ॥ तद्वंशकथनं च ॥ 2 ॥ 'वैशम्पायन उवाच । 001
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः ।' 001a
तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः ॥ 001c
भास्वरं दिव्यमजितं लोकसन्नादनं महत् । 002a
स विजित्य महीपालांश्चकार वशवर्तिनः ॥ 002c
चचार च सतां धर्मं प्राप्य चानुत्तमं यशः । 003a
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् ॥ 003c
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः । 004a
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ॥ 004c
श्रीमद्गोविततं नाम वाजिमेधमवाप सः । 005a
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥ 005c
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः । 006a
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥ 006c
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः । 007a
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ 007c
भरतस्य वरस्त्रीषु पुत्राः सञ्जज्ञिरे पृथक् । 008a
नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान् ॥ 008c
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् । 009a
ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥ 009c
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा । 010a
लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत ॥ 010c
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः । 011a
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥ 011c
ततो दिविरथो नाम भुमन्योरभवत्सुतः । 012a
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ॥ 012c
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः । 013a
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ॥ 013c
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः । 014a
सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम् ॥ 014c
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम् । 015a
ममज्जेव मही तस्य भूरिभारावपीडिता ॥ 015c
हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् । 016a
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ॥ 016c
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः । 017a
प्रवृद्धजनसस्या च सर्वदैव व्यरोचत ॥ 017c
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः । 018a
अजमीढं सुमीढं च पुरुमीढं च भारत ॥ 018c
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः । 019a
षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत ॥ 019c
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठिनौ । 020a
केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ ॥ 020c
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम् । 021a
तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः । 021c
अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥ 021e
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् । 022a
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥ 022c
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् । 023a
सङ्क्षयः सुमहानासीत्प्रजानामिति नः श्रुतम् ॥ 023c
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा । 024a
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥ 024c
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च । 025a
चालयन्वसुधां चेमां बलेन चतुरङ्गिणा ॥ 025c
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम् । 026a
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥ 026c
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः । 027a
राजा संवरणस्तस्मात्पलायत महाभयात् ॥ 027c
'ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम्' । 028a
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा । 028c
नदीविषयपर्यन्ते पर्वतस्य समीपतः ॥ 028e
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः । 029a
तेषां निवसतां तत्र सहस्रं परिवत्सरान् ॥ 029c
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः । 030a
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ॥ 030c
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा । 031a
निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥ 031c
तमासने चोपविष्टं राजा वव्रे स्वयं तदा । 032a
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि ॥ 032c
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत । 033a
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥ 033c
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् । 034a
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् ॥ 034c
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः । 035a
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ॥ 035c
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः । 036a
ततः संवरणात्सौरी तपती सुषुवे कुरुम् ॥ 036c
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे । 037a
'महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् ।' 037c
तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं ॥ 037e
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः । 038a
अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम् ॥ 038c
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम । 039a
पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥ 039c
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान् । 040a
आदिराजो विराजश्च शाल्मलिश्च महाबलः ॥ 040c
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः । 041a
एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः । 041c
जनमेजयादयः सप्त तथैवान्ये महारथाः ॥ 041e
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः । 042a
कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान् ॥ 042c
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः । 043a
जनमेजयस्य तनया भुवि ख्याता महाबलाः ॥ 043c
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च । 044a
निषधश्च महातेजास्तथा जाम्बूनदो बली ॥ 044c
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः । 045a
सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः ॥ 045c
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः । 046a
हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः ॥ 046c
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः । 047a
धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥ 047c
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत । 048a
प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि ॥ 048c
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । 049a
देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥ 049c
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया । 050a
शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥ 050c
भरतस्यान्वयास्त्वेते देवकल्पा महारथाः । 051a
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥ 051c
एवंविधा महाभागा देवरूपाः प्रहारिणः । 052a
अन्ववाये महाराज ऐलवंशविवर्धनाः ॥ 052c
'गङ्गातीरं समागम्य दीक्षितो जनमेजय । 053a
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ 053c
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः । 054a
अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः ॥ 054c
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसम्भृतैः । 055a
दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ॥ 055c
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ । 056a
जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥ 056c
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः । 057a
सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः ॥ 057c
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः । 058a
हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम् ॥ 058c
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः । 059a
भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ॥ 059c
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् । 060a
ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा ॥ 060c
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।' 061a
भरतस्यान्वये जाता देवकल्पा महारथाः ॥ 061c
बहवो ब्रह्मकल्पाश्च बभूवुः क्षत्रसत्तमाः । 062a
तेषामपरिमेयानि नामधेयानि सन्त्युत ॥ 062c
तेषां कुले यथा मुख्यान्कीर्तयिष्यामि भारत । 063a
महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ ॥ 063c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकोत्तरशततमोऽध्यायः ॥ 101 ॥

1-101-9 वितथं विगतस्तथाभावो जनकसादृश्यं यत्र तत्तादृशं पुत्रजन्म ॥ 1-101-23 आर्क्षे ऋक्षपुत्रे ॥ 1-101-24 क्षयैर्नाशहेतुभिः क्षुत्प्रभृतिभिः ॥ 1-101-26 अभ्ययात्तं संवरणम् । एनं संवरणमेव ॥ 1-101-35 बलिभृतः करदान् ॥ 1-101-36 सौरी सूर्यकन्या ॥ 1-101-40 अश्ववत एवाविक्षिदिति सञ्ज्ञान्तरम् ॥ एकोत्तरशत्ततमोऽध्यायः ॥ 101 ॥