अध्यायः 100

आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया राज्ञाङ्गीकारः ॥ 1 ॥ भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः ॥ 2 ॥ वैशम्पायन उवाच 0001
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी । 0001a
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम् ॥ 0001c
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः । 0002a
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥ 0002c
'सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः । 0003a
आत्मा चैव सुतो नाम तेनैव तव पौरव ॥ 0003c
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम् । 0004a
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम् ॥ 0004c
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः । 0005a
मासि मासि रजो ह्यासां दुरितान्यपकर्षति ॥ 0005c
ततः सर्वाणि भूतानि व्याजह्रुस्तं समन्ततः । 0006a
देवा ऊचुः 0006
आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्' ॥ 0006c
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । 0007a
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 0007c
'पतिर्जायां प्रविशति स तस्यां जायते पुनः । 0008a
अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम् ॥' 0008c
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम् । 0009a
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप ॥ 0009c
सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम् । 0010a
शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम् ॥ 0010c
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । 0011a
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥ 0011c
'भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् । 0012a
अपरे ये च पूर्वे च भारता इति तेऽभवन् ॥ 0012c
वैशम्पायन उवाच 0013
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः । 0013a
पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे ॥' 0013c
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम् । 0014a
'सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः ॥' 0014c
पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् । 0015a
शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम् ॥ 0015c
'शृण्वन्तु देवतानां च महर्षीणां च भाषितम्' । 0016a
अहमप्येवमेवैनं जानामि सुतमात्मजम् ॥ 0016c
यद्यहं वचनादस्या गृह्णीयामिममात्मजम् । 0017a
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥ 0017c
वैशम्पायन उवाच 0018
तां विशोध्य तदा राजा देवैः सह महर्षिभिः । 0018a
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥ 0018c
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः । 0019a
कारयामास मुदितः प्रीतिमानात्मजस्य ह । 0019c
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे ॥ 0019e
सभाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः । 0020a
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः ॥ 0020c
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः । 0021a
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥ 0021c
लोकस्यायं परोक्षस्तु सम्बन्धो नौ पुराऽभवत् । 0022a
कृतो लोकसमक्षोऽद्य सम्बन्धो वै पुनः कृतः ॥ 0022c
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम् ॥ 0023ac
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि सङ्गतम् । 0024a
तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम् ॥ 0024c
'ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः । 0025a
त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्' ॥ 0025c
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव ॥ 0026ac
यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये । 0027a
प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे ॥ 0027c
'अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम् । 0028a
त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः । 0028c
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः ॥ 0028e
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम् । 0029a
अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम् ॥ 0029c
वासोभिरन्नपानैश्च पूजयित्वा तु भारत । 0030a
'स मातरमुपस्थाय रथन्तर्यामभाषत ॥ 0030c
मम पुत्रो वने जातस्तव शोकप्रणशनः । 0031a
ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने ॥ 0031c
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता । 0032a
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् ॥ 0032c
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे । 0033a
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् ॥ 0033c
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत् । 0034a
उवाच वचनं सत्यं लक्षये लक्षणानि च ॥ 0034c
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति । 0035a
तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् ॥ 0035c
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि । 0036a
एवमुक्ता रथ्तर्या परं हर्षमवाप सा ॥ 0036c
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा । 0037a
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ॥ 0037c
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः । 0038a
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा' ॥ 0038c
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् । 0039a
'भरते भारमावेश्य कृतकृत्योऽभवन्नृपः ॥ 0039c
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः । 0040a
गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान् ॥' ॥ 0040c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि शततमोऽध्यायः ॥ 100 ॥