अध्यायः 099
दुष्यन्तशकुन्तलाविवादः ॥ 1 ॥
शकुन्तलोवाच । 001
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि । 001a
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ 001c
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् । 002a
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः ॥ 002c
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम् । 003a
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ 003c
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च । 004a
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥ 004c
'पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा । 005a
आयुर्नाम महाराज तव पूर्वपितामहः ॥ 005c
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः । 006a
अप्सरःसु ऋषीणां च मातृदोषो न विद्यते ॥' 006c
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप । 007a
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि ॥ 007c
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम् । 008a
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥ 008c
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते । 009a
तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम् ॥ 009c
अतीव रूपसम्पन्नो न कञ्चिदवमन्यते । 010a
अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः ॥ 010c
'पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः । 011a
तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः ॥ 011c
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । 012a
सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥ 012c
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते । 013a
तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत् ॥ 013c
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि । 014a
दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥' 014c
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । 015a
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥ 015c
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । 016a
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥ 016c
'आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः । 017a
परेषामपि जानाति स्वधर्मसदृशान्गुणान् ॥ 017c
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना । 018a
अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥' 018c
अन्यान्परिवदन्साधुर्यथा हि परितप्यते । 019a
तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः ॥ 019c
'अपवादरता मूर्खा भवन्ति हि विशेषतः । 020a
नापवादरताः सन्तो भवन्ति स्म विशेषतः ॥' 020c
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम् । 021a
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ 021c
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः । 022a
यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ 022c
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते । 023a
यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम् ॥ 023c
'दारुणाल्लोकसङ्क्लेशाद्दुःखमाप्नोत्यसंशयम् ॥ 024a
'कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥ 024c
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत् । 025a
स्वपत्नीप्रभवाल्ँलब्धान्कृतान्समयवर्धितान् ॥ 025c
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् । 026a
'ते च षड्वन्धुदायादाः षडदायादबान्धवाः ॥ 026c
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः । 027a
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥ 027c
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । 028a
तस्मात्पुत्रं च सत्यं च पालयस्व महीपते ॥ 028c
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि । 029a
'आत्मानं सत्यधर्मौ च पालयेथा महीपते । 029c
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥ 029e
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । 030a
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ 030c
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । 031a
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ 031c
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । 032a
सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम् ॥ 032c
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् । 033a
न हि तीव्रतरं पापमनृतादिह विद्यते ॥ 033c
राजन्सत्यं परो धर्मः सत्याच्च समयः परः । 034a
मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥ 034c
'यः पापो न विजानीयात्कर्म कृत्वा नराधिप । 035a
न हि तादृक्परं पापमनृतादिह विद्यते ॥ 035c
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च । 036a
कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः ॥ 036c
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते । 037a
अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः ॥' 037c
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् । 038a
आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं ॥ 038c
'पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु । 039a
गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः ॥ 039c
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः । 040a
समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः ॥ 040c
सादृश्येनोद्धृतं बिम्बं तव देहाद्विशाम्पते । 041a
तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः ॥ 041c
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः । 042a
'ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम् । 042c
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥ 043a
'शकुन्तले तव सुतश्चक्रवर्ती भविष्यति । 043c
एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा ॥ 044a
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया । 044c
न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल ॥ 045a
असाक्षिणी मन्दभाग्या गमिष्यामि यथागतम् ॥' 045c
वैशम्पायन उवाच 046
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला । 046a
'तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत ॥ 046c
सन्नियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् । 047a
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्' ॥ ॥ 047c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥