अध्यायः 096
शकुन्तलाया दुष्यन्तं प्रति प्रेषयितुं कण्वकृत उपदेशः ॥ 1 ॥ हास्तिनपुरगमनविषयेकण्वशकुन्तलासर्वदमनानां विवादः ॥ 2 ॥ कण्वेन स्वशिष्यद्वारा शकुन्तलासर्वदमनयोर्हास्तिनपुरप्रेषणम् ॥ 3 ॥ पुरप्रवेशान्निर्विण्णैः शिष्यैः कण्वाश्रमं प्रति निवर्तनम् ॥ 4 ॥
वैशम्पायन उवाच 001
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् । 001a
समयो यौवराज्याय इत्यनुध्याय स द्विजः ॥ 001c
'शकुन्तलां समाहूय कण्वो वचनमब्रवीत् । 002a
कण्व उवाच 002
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते ॥ 002c
पतिव्रतानां नारीणां विशिष्टमिति चोच्यते । 003a
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः ॥ 003c
अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव । 004a
एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च ॥ 004c
तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम् । 005a
तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह ॥ 005c
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते । 006a
गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया ॥ 006c
दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि । 007a
देवतानां गुरूणां च क्षत्रियाणां च भामिनि ॥ 007c
भर्तॄणां च विशेषेम हितं सङ्गमनं भवेत् । 008a
तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया ॥ 008c
प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः ॥ 009ac
वैशम्पायन उवाच 010
एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत । 010a
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् ॥ 010c
सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः । 011a
तस्याग्रमहिषी चैषा तव माता शुचिव्रता ॥ 011c
गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा । 012a
गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि ॥ 012c
स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव । 013a
पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः ॥ 013c
तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव ॥ 014ac
वैशम्पायन उवाच 015
अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् । 015a
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे ॥ 015c
न चान्यं पितरं मन्ये त्वामृते तु महातपः । 016a
तव शुश्रूषणं पुण्यमिह लोके परत्र च ॥ 016c
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः । 017a
अहं शुश्रूषणपरः पादमूले वसामि वः ॥ 017c
क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा । 018a
त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् ॥ 018c
एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः । 019a
तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला ॥ 019c
स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता । 020a
निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत् ॥ 020c
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले । 021a
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्तवास्ति चेत् ॥ 021c
शकुन्तलोवाच 022
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः । 022a
मया निवारितो नित्यं न करोषि वचो मम ॥ 022c
निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां सम्प्रमथ्य वै । 023a
वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम् ॥ 023c
एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन । 024a
रुषितो भगवांस्तात तस्मादावां विवासितौ ॥ 024c
नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी । 025a
पादमूले वसिष्यामि महर्षेर्भावितात्मनः ॥ 025c
वैशम्पायन उवाच 026
एवमुक्त्वा तु रुदती पपात मुनिपादयोः । 026a
एवं विलपतीं कण्वश्चानुनीय च हेतुभिः । 026c
पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः ॥ 026e
कण्व उवाच 027
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि । 027a
पतिव्रताभावगुणान्हित्वा साध्यं न किञ्चन ॥ 027c
प्रतिव्रतानां देवा वै तुष्टाः सर्ववरप्रदाः । 028a
प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च ॥ 028c
पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम् । 029a
तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते ॥ 029c
वैशम्पायन उवाच 030
शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् । 030a
दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः ॥ 030c
शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ । 031a
मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् ॥ 031c
गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै । 032a
शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव ॥' 032c
इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत् । 033a
शकुन्तलामिमां शीघ्रं सपुत्रामाश्रमादितः ॥ 033c
भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम् । 034a
नारीणां चिरवासो हि बान्धवेषु न रोचते ॥ 034c
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत मा चिरम् ॥ 035ac
'वैशम्पायन उवाच 036
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु । 036a
काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला ॥ 036c
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् । 037a
तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत् । 037c
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् ॥ 037e
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः । 038a
अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः ॥ 038c
शकुन्तला च पितरमभिवाद्य कृताञ्जलिः । 039a
प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् ॥ 039c
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् । 040a
अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान् ॥ 040c
एवमुक्तो नतशिरा मुनिर्नोवाच किञ्चन । 041a
मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् ॥ 041c
अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् । 042a
फलमूलाशिनो दान्तान्कृशान्धमनिसन्ततान् ॥ 042c
व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान् । 043a
समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत् ॥ 043c
मया तु लालिता नित्यं मम पुत्री यशस्विनी । 044a
वने जाता विवृद्धा च न च जानाति किञ्चन ॥ 044c
आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम् । 045a
द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् ॥ 045c
प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः । 046a
अध्युवास चिरं कालमुर्वश्या सहितः पुरा ॥ 046c
अनूपजाङ्गलयुतं धनधान्यसमाकुलम् । 047a
प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे ॥ 047c
तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः । 048a
शाकमूलफलाहारा निवर्तध्वं तपोधनाः । 048c
अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः ॥' 048e
तथेत्युक्त्वा च ते सर्वे प्रातिष्ठन्त महौजसः । 049a
'शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति ॥ 049c
गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम् । 050a
आजग्मुश्च पुरं रम्यं दुष्यन्ताध्युषितं वनात् ॥ 050c
शकुन्तलां समादाय मुनयो धर्मवत्सलाः । 051a
ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च ॥ 051c
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च । 052a
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः ॥ 052c
शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः । 053a
तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् ॥ 053c
परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि । 054a
शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम् ॥ 054c
हर्म्यप्रसादसम्बाधां नानापण्यविभूषिताम् । 055a
मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् ॥ 055c
राजमार्गेण महता सुविभक्तेन शोभिताम् । 056a
कैलासशिखराकारैर्गोपुरैः समलङ्कृताम् ॥ 056c
द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम् । 057a
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ 057c
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् । 058a
वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः ॥ 058c
धनधान्यसमृद्धैश्च सन्तुष्टै रत्नपूजितैः । 059a
कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा ॥ 059c
वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः । 060a
अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः ॥ 060c
एवंविधजनोपेतमिन्द्रलोकमिवापरम् । 061a
तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम् ॥ 061c
इन्द्रसद्मप्रतीकाशं सम्पूर्णं वित्तसञ्चयैः । 062a
तस्य मध्ये सभा दिव्या नानारत्नविभूषिता ॥ 062c
तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः । 063a
ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः ॥ 063c
संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः । 064a
कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः ॥ 064c
सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः । 065a
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् ॥ 065c
शकुन्तले निमित्तानि शोभनानि भवन्ति नः । 066a
कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि । 066c
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति ॥ 066e
वैशम्पायन उवाच 067
वर्धमानपुरद्वारं तूर्यघोषनिनादितम् । 067a
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः ॥ 067c
प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः । 068a
वर्धमानपुरद्वारं प्रविशन्नेव पौरवः ॥ 068c
इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः ॥ 069ac
ततो वै नागराः सर्वे समाहूय परस्परम् । 070a
द्रष्टुकामा नृपसुतं समपद्यन्त भारत ॥ 070c
नागरा ऊचुः । 071
देवतेव जनस्याग्रे भ्राजते श्रीरिवागता । 071a
जयन्तेनेव पौलोमी इन्द्रलोकादिहागता ॥ 071c
इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् । 072a
अभिवादयन्तः सहिता महर्षीन्देववर्चसः ॥ 072c
अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् । 073a
एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः ॥ 073c
वैशम्पायन उवाच 074
इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम् । 074a
हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम् ॥ 074c
ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः । 075a
कृष्णाजिनेन सञ्छन्नाननिच्छन्तो ह्यवेक्षितुम् ॥ 075c
पिशाचा इव दृश्यन्ते नागराणां विरूपिणः । 076a
विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् ॥ 076c
क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः । 077a
त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि ॥ 077c
पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान् । 078a
विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः ॥ 078c
एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः । 079a
अन्योन्यं ते समाहूय इदं वचनमब्रुवन् ॥ 079c
उक्तं भगवता वाक्यं न कृतं सत्यवादिना । 080a
पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् ॥ 080c
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् । 081a
त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम् ॥ 081c
गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम् । 082a
एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् ॥ ॥ 082c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥
1-96-10 पुत्र्याः पुत्रः पौत्रः दौहित्र इत्यर्थः ॥