अध्यायः 094
समयबन्धपूर्वकं गान्धर्वेण विवाहेन शकुन्तलापाणिग्रहणम् ॥ 1 ॥ कण्वस्य स्वाश्रमं प्रति प्रत्यागमनम् ॥ 2 ॥ कण्वशकुन्तलासंवादः ॥ 3 ॥ कण्वाच्छकुन्तलाया वरलाभः ॥ 4 ॥
दुष्यन्त उवाच 001
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे । 001a
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥ 001c
सुवर्णमालां वासांसि कुण्डले परिहाटके । 002a
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥ 002c
आहरामि तवाद्याहं निष्कादीन्यजिनानि च । 003a
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥ 003c
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । 004a
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ 004c
शकुन्तलोवाच 005
फलाहारो गतो राजन्पिता मे इत आश्रमात् । 005a
मुहूर्तं सम्प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥ 005c
'पिता हि मे प्रभुर्नित्यं दैवतं परमं मम । 006a
यस्मै मां दास्यति पिता स मे भर्ता भविष्यति ॥ 006c
पिता रक्षति कौमारे भर्ता रक्षति यौवने । 007a
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ 007c
समन्यमाना राजेन्द्र पितरं मे तपस्विनम् । 008a
अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ॥ 008c
दुष्यन्त उवाच 009
मामैवं वद कल्याणि तपोराशिं दमात्मकम् । 009a
शकुन्तलोवाच 009
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥ 009c
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् । 010a
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥ 010c
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् । 011a
क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान् ॥ 011c
दुष्यन्त उवाच 012
जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते । 012a
'इच्छामि त्वां वरारोहे भजमानामनिन्दिते । 012c
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ 012e
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । 013a
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥ 013c
अष्टावेव समासेन विवाहा धर्मतः स्मृताः । 014a
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ॥ 014c
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । 015a
तेषां धर्म्यान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥ 015c
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय । 016a
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥ 016c
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः । 017a
पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह ॥ 017c
पैशाच आसुरश्चैव न कर्तव्यौ कदाचन । 018a
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥ 018c
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । 019a
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥ 019c
सा त्वं मम सकामस्य सकामा वरवर्णिनी । 020a
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥ 020c
शकुन्तलोवाच 021
यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम । 021a
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥ 021c
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः । 022a
मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः ॥ 022c
युवराजो महाराज सत्यमेतद्ब्रवीमि ते । 023a
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया ॥ 023c
वैशम्पायन उवाच 024
'तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशाम्पतिः । 024a
दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥ 024c
शकुन्तलोवाच 025
ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः । 025a
वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥ 025c
लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु । 026a
सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः ॥ 026c
यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् । 027a
तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव ॥ 027c
वैवाहिकानि चान्यानि समस्तानीह पार्थिव । 028a
दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥ 028c
वैशम्पायन उवाच ' 029
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् । 029a
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥ 029c
यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते । 030a
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ॥ 030c
'पुरोहितं समाहूय वचनं युक्तमब्रवीत् । 031a
राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ॥ 031c
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः । 032a
तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरं कुरु ॥ 032c
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः । 033a
शोभनं राजराजेति विधिना कृतवान्द्विजः ॥ 033c
शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः । 034a
'जग्राह विधिवत्पाणावुवास च तया सह ॥ 034c
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः । 035a
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥ 035c
'त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह । 036a
शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः ॥ 036c
मूकाश्चैव किराताश्च कुब्जा वामनकैः सह । 037a
सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥ 037c
शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति । 038a
तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते ॥ 038c
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् । 039a
सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते ॥ 039c
वैशम्पायन उवाच 040
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् । 040a
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥ 040c
प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे । 041a
शकुन्तला सा सुमुखी पपात नृपपादयोः ॥ 041c
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः । 042a
शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥' 042c
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय । 043a
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव ॥ 043c
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । 044a
तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् । 044c
एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥ 044e
ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत् । 045a
शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥ 045c
'शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः । 046a
ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् ॥ 046c
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः । 047a
न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम् ॥ 047c
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत । 048a
तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ ॥ 048c
अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता । 049a
स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥ 049c
कण्व उवाच 050
सव्रीडैव च दीर्घायुः पुरेव भविता न च । 050a
वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥ 050c
वैशम्पायन उवाच 051
ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् । 051a
निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥ 051c
ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा । 052a
शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम् ॥ 052c
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा । 053a
सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥ 053c
शकुन्तलोवाच 054
राजा ताताजगामेह दुष्यन्त इलिलात्मजः । 054a
मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥ 054c
तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः । 055a
अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ॥ 055c
अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि । 056a
वैशम्पायन उवाच 056
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ॥ 056c
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः । 057a
उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः ॥ 057c
कण्व उवाच 058
एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा । 058a
त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम्' ॥ 058c
पुंसा सह समायोगो न स धर्मोपघातकः । 059a
न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् ॥ 059c
क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते । 060a
सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते ॥ 060c
'किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि । 061a
'धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः ॥ 061c
अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले । 062a
महात्मा जनिता लोके पुत्रस्तव महायशाः ॥ 062c
स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम् । 063a
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ॥ 063c
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः । 064a
प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि ॥ 064c
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते । 065a
सार्थकं साम्प्रतं ह्येतन्न च पाप्मास्ति तेऽनघे । 065c
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥ 065e
शकुन्तलोवाच 066
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः । 066a
मम चैव पतिर्दृष्टो देवतानां समक्षतः । 066c
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥ 066e
वैशम्पायन उवाच 067
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी । 067a
ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा ॥ 067c
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया । 068a
'एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥ 068c
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम् ॥ 069ac
कण्व उवाच 070
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः । 070a
पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय ॥ 070c
वैशम्पायन उवाच 071
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् । 071a
स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥' 071c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥
1-94-4 गान्धर्वो वरवध्वोरैकमत्येन कृतः ॥ 1-94-5 फलाहारः फलान्याहर्तुं गतः ॥ 1-94-17 पञ्चानां ब्राह्मादीनां त्रयो ब्राह्मदैवप्राजापत्या धर्म्याः । द्वावर्षासुरौ कन्याशुल्कग्रहणादधर्म्यौ ॥ 1-94-18 तयोरप्यासुरः पैशाचवदत्यन्तं हेय इत्याह । पैशाच इति ॥ 1-94-19 परिशेषाद्गन्धर्वराक्षसौ क्षत्रियस्य धर्म्यावित्याह गान्धर्वेति ॥ 1-94-42 शपेयं शपथं कुर्याम् ॥ चतुर्नवतितमोऽध्यायः ॥ 94 ॥