अध्यायः 092
कण्वाश्रमे दुष्यन्तशकुन्तलासंवादः ॥ 1 ॥ शकुन्तलायाः स्वजन्मवृत्तान्तकथनारम्भः ॥ 2 ॥
वैशम्पायन उवाच 001
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् । 001a
नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥ 001c
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम् । 002a
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव ॥ 002c
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी । 003a
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥ 003c
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा । 004a
'सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥ 004c
रूपयौवनसम्पन्ना शीलाचारवती शुभा । 005a
सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम् ॥ 005c
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् । 006a
स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया ॥' 006c
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च । 007a
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ॥ 007c
पप्रच्छानामयं राजन्कुशलं च नराधिपम् । 008a
यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा ॥ 008c
उवाच स्मयमानेव किं कार्यं क्रियतामिति । 009a
'आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ॥ 009c
कस्त्वमद्येह सम्प्राप्तो महर्षेराश्रमं शुभम् । 010a
'तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ॥ 010c
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः । 011a
'राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः ॥ 011c
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने । 012a
'आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ॥ 012c
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने । 013a
शकुन्तलोवाच 013
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् । 013c
मुहूर्तं सम्प्रतीक्षस्व द्रष्टास्येनमुपागतम् ॥ 013e
वैशम्पायन उवाच 014
अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः । 014a
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम् ॥ 014c
विभ्राजमानां वपुषा तपसा च दमेन च । 015a
रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥ 015c
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम् । 016a
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥ 016c
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः । 017a
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥ 017c
'स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किञ्चन । 018a
शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥ 018c
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः । 019a
वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥ 019c
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते । 020a
ऋषिपुत्रीषु चान्यासु नावरासु परासु च ॥ 020c
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि । 021a
यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥ 021c
न हि मे भीरु विप्रायां मनः प्रसहते गतिम् । 022a
भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि । 022c
भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः' ॥ 022e
एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे । 023a
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥ 023c
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता । 024a
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः ॥ 024c
'अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता । 025a
तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥' 025c
दुष्यन्त उवाच 026
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः । 026a
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः ॥ 026c
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी । 027a
संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि ॥ 027c
शकुन्तलोवाच 028
यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा । 028a
'अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ॥ 028c
स पापेनावृतो मूर्खस्तेन आत्मापहारकः । 029a
'शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः ॥ 029c
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् । 030a
'ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला ॥ 030c
पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप । 031a
'तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा ॥ 031c
कण्व उवाच 032
तप्यमानः किल पुरा विश्वामित्रो महत्तपः । 032a
सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥ 032c
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति । 033a
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् ॥ 033c
गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे । 034a
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥ 034c
असावादित्यशङ्काशो विश्वामित्रो महातपाः । 035a
तप्यमानस्तपो घोरं मम कम्पयते मनः ॥ 035c
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे । 036a
शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ 036c
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय । 037a
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥ 037c
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः । 038a
लोभयित्वा वरारोहे तपसस्तं निवर्तय ॥ 038c
मेनकोवाच 039
महातेजाः स भगवांस्तथैव च महातपाः । 039a
कोपनश्च तथा ह्येनं जानाति भगवानपि ॥ 039c
तेजस्तपसश्चैव कोपस्य च महात्मनः । 040a
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥ 040c
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् । 041a
क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥ 041c
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः । 042a
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥ 042c
बभार यत्रास्य पुरा काले दुर्गे महात्मनः । 043a
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥ 043c
अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम् । 044a
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥ 044c
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् । 045a
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥ 045c
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसम्पदा । 046a
प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः । 046c
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ॥ 046e
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः । 047a
अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् ॥ 047c
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः । 048a
निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥ 048c
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे । 049a
यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो ॥ 049c
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा । 050a
सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः ॥ 050c
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् । 051a
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत् ॥ 051c
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् । 052a
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥ 052c
यमश्च सोमश्च महर्षयश्चसाध्या विश्वे वालस्विल्याश्च सर्वे । 053a
एतेऽपि यस्योद्विजन्ते प्रभावात्तस्मात्कस्मान्मादृशी नोद्विजेत ॥ 053c
त्वयैवमुक्ता च कथं समीपमृषेर्न गच्छेयमहं सुरेन्द्र । 054a
रक्षां च मे चिन्तय देवराज यथा त्वदर्थं रक्षिताऽहं चरेयम् ॥ 054c
कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव । 055a
भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात् ॥ 055c
वनाच्च वायुः सुरभिः प्रवायात्तस्मिन्काले तमृषिं लोभयन्त्याः । 056a
तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साऽऽश्रमं कौशिकस्य ॥ ॥ 056c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥
1-92-23 हसती हसन्ती ॥ 1-92-30 अभ्यचोदयत् पृष्टवान् ॥ 1-92-43 बभार पोषितवान् । मतङ्गस्त्रिशङ्कुः ॥ 1-92-44 आश्रममभ्येत्य तपस्तप्त्वेति शेषः । नद्याः कौशिक्याः ॥ 1-92-49 तस्य तस्मात् ॥ 1-92-50 आवर्तयेदेकीकुर्यात् ॥ 1-92-52 सूर्यचन्द्रावेवाक्ष्णोः सम्बन्धिनी तारके यस्य तावपि भ्रूभङ्गमात्रेण स्रष्टुं समर्थ इत्यर्थः ॥ 1-92-55 प्रक्रीडितायाः प्रकृष्टं क्रीडितं यस्याः । विवृणोतु अपसारयतु ॥ द्विनवतितमोऽध्यायः ॥ 92 ॥