अध्यायः 091

मृगयाप्रसङ्गेन दुष्यन्तस्य कण्वाश्रमगमनम् ॥ 1 ॥ वैशम्पायन उवाच । 001
ततो मृगसहस्राणि हत्वा सबलवाहनः । 001a
तत्र मेघघनप्रख्यं सिद्धचारणसेवितम् ॥ 001c
वनमालोकयामास नगराद्योजनद्वये । 002a
मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः ॥ 002c
मृगाननुचरन्राजा वेगेनाश्वानचोदयत् । 003a
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥ 003c
एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः । 004a
स वनस्यान्तमासाद्य महच्छून्यं समासदत् ॥ 004c
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् । 005a
मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥ 005c
सीतमारुतसंयुक्तं जगामान्यन्महद्वनम् । 006a
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥ 006c
विपुलं मधुरारावैर्नादितं विहगैस्तथा । 007a
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् ॥ 007c
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् । 008a
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम् ॥ 008c
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी । 009a
षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत् ॥ 009c
विगहैर्नादितं पुष्पैरलङ्कृतमतीव च । 010a
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम् ॥ 010c
मनोरमं सहेष्वासो विवेश वनमुत्तमम् । 011a
मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः ॥ 011c
पुष्पवृष्टिं विचित्रां तु व्यसजंस्ते पुनः पुनः । 012a
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वनैः ॥ 012c
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः । 013a
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु ॥ 013c
रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः । 014a
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् ॥ 014c
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् । 015a
सम्पश्यन्सुमहातेजा बभूव मुदितस्तदा ॥ 015c
परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः । 016a
अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः ॥ 016c
सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः । 017a
सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः ॥ 017c
सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः । 018a
परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥ 018c
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः । 019a
नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम् ॥ 019c
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् । 020a
आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥ 020c
नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् । 021a
तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत् ॥ 021c
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् । 022a
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ॥ 022c
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च । 023a
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् ॥ 023c
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् । 024a
तत्रव्यालमृगान्सैम्यान्पश्यन्प्रीतिमवाप सः ॥ 024c
तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत । 025a
देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥ 025c
नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः । 026a
सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम् ॥ 026c
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् । 027a
सकिन्नरगणावासां वारनर्क्षनिषेविताम् ॥ 027c
पुण्यस्वाध्यायसङ्घुष्टा पुलिनैरुपशोभिताम् । 028a
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥ 028c
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः । 029a
आश्रमप्रवरं रम्यं महर्षिगणसेवितम् ॥ 029c
नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा । 030a
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥ 030c
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया । 031a
नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥ 031c
मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् । 032a
तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः ॥ 032c
अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा । 033a
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥ 033c
ध्वजिनीमश्वसम्बाधां पदातिगजसङ्कुलाम् । 034a
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥ 034c
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् । 035a
काश्यपं स्थीयतामत्र यावदागमनं मम ॥ 035c
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः ॥ 036a
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम् | 036c
सामात्यो राजलिङ्गानि सोपनीय नराधिपः । 037a
पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥ 037c
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् । 038a
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह । 038c
षट्पदोद्गीतसङ्घुष्टं नानाद्विजगणायुतम् ॥ 038e
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह । 039a
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः । 039c
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥ 039e
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम् । 040a
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः ॥ 040c
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः । 041a
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ 041c
अथर्ववेदप्रवराः पूगयज्ञियसामगाः । 042a
संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥ 042c
शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः । 043a
नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः ॥ 043c
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः । 044a
न्यायतत्त्वात्मविज्ञानसम्पन्नैर्वेदपारगैः ॥ 044c
नानावाक्यसमाहारसमवायविशारदैः । 045a
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥ 045c
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः । 046a
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः ॥ 046c
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः । 047a
पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः ॥ 047c
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् । 048a
लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥ 048c
तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् । 049a
जपहोमपरान्विप्रान्ददर्श परवीरहा ॥ 049c
आसनानि विचित्राणि रुचिराणि महीपतिः । 050a
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥ 050c
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः । 051a
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥ 051c
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् । 052a
नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम् ॥ 052c
स काश्यपस्यायतनं महाव्रतैर्वृतं समान्तादृषिभिस्तपोधनैः । 053a
विवेश सामात्यपुरोहितोऽरिहाविविक्तमत्यर्थमनोहरं शुभम् ॥ ॥ 053c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥

1-91-4 शून्यं वृक्षादिरहितमूषरम् ॥ 1-91-18 रिरंसया रमयितुमिच्छया ॥ 1-91-19 नदीकच्छोद्भवं कच्छः सजलोऽनूपप्रदेशः ॥ 1-91-29 काश्यपस्य कश्यपगोत्रस्य कण्वस्य ॥ 1-91-39 विततेषु वैतानिकेषु इष्टिपशुसोमादिषु प्रवर्तमानेषु ॥ 1-91-40 यज्ञविद्यायामङ्गभूतानि कल्पसूत्रादीनि ॥ 1-91-41 भारुण्डसामानि पूगयज्ञियसामानि च साम्नामवान्तरभेदाः ॥ 1-91-46 स्थापनं प्रथमं स्वसिद्धान्तव्यवस्था ततस्तत्र शङ्काऽऽक्षेपः तस्याः परिहारः सिद्धान्तस्तैर्या परमार्थज्ञता तां गतैः ॥ 1-91-48 लोके एव आयतन्ते ते लोकायतिकाः तेषु लोकरञ्जनपरेषु मुख्यैः ॥ एकनवतितमोऽध्यायः ॥ 91 ॥