अध्यायः 090
मृगयार्थं दुष्यन्तस्यारण्यगमनम् ॥ 1 ॥
जनमेजय उवाच । 001
सम्भवं भरतस्याहं चरितं च महामतेः । 001a
शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥ 001c
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला । 002a
तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् ॥ 002c
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर । 003a
वैशम्पायन उवाच । 003
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥ 003c
वनं जगाम गहनं हयनागशतैर्वृतः । 004a
बलेन चतुरङ्गेण वृतः परमवल्गुना ॥ 004c
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः । 005a
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥ 005c
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिःस्वनैः । 006a
रथनेमिस्वनैश्चैव सनागवरबृंहितैः ॥ 006c
नानायुधधरैश्चापि नानावेषधरैस्तथा । 007a
ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ॥ 007c
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे । 008a
प्रासादवरशृङ्गस्थाः परया नृपशोभया ॥ 008c
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् । 009a
शक्रोपमममित्रघ्नं परवारणवारणम् ॥ 009c
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे । 010a
अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः ॥ 010c
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः । 011a
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् ॥ 011c
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि । 012a
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥ 012c
निर्ययौ परमप्रीत्या वनं मृगजिघांसया । 013a
तं देवराजप्रतिमं मत्तवारणधूर्गतम् ॥ 013c
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे । 014a
ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च ॥ 014c
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा । 015a
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥ 015c
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः । 016a
महीमापूरयामास घोषेण त्रिदिवं तथा ॥ 016c
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् । 017a
बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥ 017c
विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम् । 018a
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥ 018c
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः । 019a
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ॥ 019c
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान् । 020a
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् ॥ 020c
पातयामास दुष्यन्तो निर्बिभेद च सायकैः । 021a
दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः ॥ 021c
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत । 022a
कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः ॥ 022c
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः । 023a
तोमरैरसिभिश्चापि गदामुसलकम्पनैः ॥ 023c
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् । 024a
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ॥ 024c
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः । 025a
तत्र विद्रुतयूथानि हतयूथपतीनि च ॥ 025c
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः । 026a
शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः ॥ 026c
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः । 027a
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ॥ 027c
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः । 028a
केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः ॥ 028c
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा । 029a
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ॥ 029c
सङ्कोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः । 030a
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ॥ 030c
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् । 031a
तद्वनं बलमेघेन शरधारेण संवृतम् । 031c
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम् ॥ 031e
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि नवतितमोऽध्यायः ॥ 90 ॥
1-90-9 परवारणवारणं शत्रगजानां निवारकम् ॥ 1-90-13 धूर्गतं स्कन्धारूढम् ॥ 1-90-28 संसाध्य पाकादिना संस्कृत्य ॥ 1-90-29 प्रकुट्य चूर्णीकृत्य । गजा वनगजाः ॥ नवतितमोऽध्यायः ॥ 90 ॥