अध्यायः 089
शकुन्तलोपाख्यानारम्भः ॥ 1 ॥
जनमेजय उवाच । 001
भगवन्विस्तरेणेह भरतस्य महात्मनः । 001a
जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि ॥ 001c
वैशम्पायन उवाच 002
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान् । 002a
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥ 002c
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः । 003a
समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥ 003c
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः । 004a
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥ 004c
न वर्णसङ्करकरो न कृष्याकरकृज्जनः । 005a
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥ 005c
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे । 006a
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥ 006c
नासीच्चोरभयं तात न क्षुधाभयमण्वपि । 007a
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥ 007c
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः । 008a
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥ 008c
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च । 009a
सर्वरत्नसमृद्धा च मही पशुमती तथा ॥ 009c
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते । 010a
स चाद्भुतमहावीर्यो वज्रसंहननो युवा ॥ 010c
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम् । 011a
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च ॥ 011c
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः । 012a
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः ॥ 012c
अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः । 013a
सम्मतः स महीपालः प्रसन्नपुरराष्ट्रवान् ॥ 013c
भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत् ॥ ॥ 014ac
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥
1-89-5 न कृष्याकरकृत् कृषिकृन्न भुवोऽकृष्टपच्यत्वात् । आकरः सुवर्णादिधातूत्पत्तिस्थानं तत्रापि यत्नं न करोति पृथिव्या रत्नैर्धातुभिश्च पूर्णत्वात् ॥ 1-89-8 दैवे कर्मणि वृष्ट्याद्यर्थे कारीर्यादिकाम्यकर्मणि ॥ 1-89-9 तदेवाह कालेति ॥ 1-89-10 वज्रसंहननो दृढदेहः ॥ 1-89-11 सवनकाननं वनं जलमुपवनं वा ॥ 1-89-14 आदिशत् शशास ॥ एकोननवतितमोऽध्यायः ॥ 89 ॥