अध्यायः 088

पूरुवंशकथनम् ॥ 1 ॥ जनमेजय उवाच 001
पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम् । 001a
आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः ॥ 001c
विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात् । 002a
सम्बभूव यथा राजा भरतो द्विजसत्तम ॥ 002c
वैशम्पायन उवाच 003
पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप । 003a
धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः ॥ 003c
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः । 004a
पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः ॥ 004c
मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः । 005a
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥ 005c
शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः । 006a
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥ 006c
अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः । 007a
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ॥ 007c
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः । 008a
सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः ॥ 008c
ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान् । 009a
स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः ॥ 009c
तेजेयुर्बलावान्धीमान्सत्येयुश्चन्द्रविक्रमः । 010a
धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः ॥ 010c
अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट् । 011a
ऋचेयुरथ विक्रान्तो देवानामिव वासवः ॥ 011c
अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत् । 012a
मतिनार इति ख्यातो राजा परमधार्मिकः ॥ 012c
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः । 013a
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥ 013c
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् । 014a
आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥ 014c
ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान् । 015a
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥ 015c
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः । 016a
ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान् ॥ 016c
दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च । 017a
तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो दुर्जयो युधि ॥ 017c
दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः । 018a
शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः ॥ 018c
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ ॥ 019ac

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥