अध्यायः 087
वसुमतः शिबेश्च ययातिना संवादः ॥ 1 ॥ पुनरष्टकययातिसंवादः ॥ 2 ॥ तत्रागतया माधव्या स्वपुत्रान्प्रति ययातेर्मातामहत्वकथनम् ॥ 3 ॥ तद्वचनेन ययातेरष्टकादिदत्तपुण्यस्वीकारपूर्वकमष्टकादिभिः सह स्वर्गगमनम् ॥ 4 ॥ ययातिना मार्गे अष्टकादीन्प्रति विस्तरेण स्ववृत्तान्तकथनम् ॥ 5 ॥ ययात्युपाख्यानश्रवणादिफलकथनम् ॥ 6 ॥
वसुमानुवाच 001
पृच्छामि त्वां वसुमानौषदश्विर्यद्यस्ति लोको दिवि मे नरेन्द्र । 001a
यद्यन्तरिक्षे प्रथितो महात्मन्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 001c
ययातिरुवाच । 002
यदन्तरिक्षं पृथिवी दिशश्चयत्तेजसा तपते भानुमांश्च । 002a
लोकास्तावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति ॥ 002c
वसुमानुवाच 003
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु । 003a
क्रीणीष्वैतांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः ॥ 003c
ययातिरुवाच 004
न मिथ्याऽहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः । 004a
कुर्यां न चैवाकृतपूर्वमन्यैर्विधित्समानः किमु तत्र साधुः ॥ 004c
वसुमानुवाच 005
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते । 005a
अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु ॥ 005c
शिबिरुवाच 006
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात । 006a
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 006c
ययातिरुवाच 007
यत्त्वं वाचा हृदयेनापि साधून्परीप्समानान्नावमंस्था नरेन्द्र । 007a
तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः ॥ 007c
शिबिरुवाच 008a
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते । 008a
न चाहं तान्प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः ॥ 008c
ययातिरुवाच 009
यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेव लोकाः । 009a
तथाऽद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् ॥ 009c
अष्टक उवाच 010
न चेदेकैकशो राजल्ँलोकान्नः प्रतिनन्दसि । 010a
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥ 010c
ययातिरुवाच 011
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः । 011a
अहं तन्नाभिजानामि यत्कृतं न मया पुरा ॥ 011c
अष्टक उवाच 012
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । 012a
यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान् ॥ 012c
ययातिरुवाच 013
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः । 013a
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ 013c
'वैशम्पायन उवाच 014
अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा । 014a
हयस्य यानि चाङ्गानि सन्निकृत्य यथाक्रमम् ॥ 014c
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत । 015a
अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥ 015c
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि । 016a
विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥ 016c
एतस्मिन्नन्तरे चैव माधवी सा तपोधना । 017a
मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् ॥ 017c
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता । 018a
यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ॥ 018c
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा । 019a
यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ॥ 019c
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी । 020a
असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा ॥ 020c
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा । 021a
तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥ 021c
भवत्या यत्कृतमिदं वन्दनं पादयोरिह । 022a
कोयं देवोपमो राजा याऽभिवन्दसि मे वद ॥ 022c
माधव्युवाच 023
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम । 023a
ययातिर्मम पुत्राणां मातामह इति स्मृतः ॥ 023c
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः । 024a
केन वा कारणेनैवमिह प्राप्तो महायशाः ॥ 024c
वैशम्पायन उवाच 025
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत् । 025a
सा पुत्रस्य वचः श्रुत्वा सम्भ्रमाविष्टचेतना ॥ 025c
माधवी पितरं प्राह दौहित्रपरिवारितम् । 026a
तपसा निर्जिताल्ँलोकान्प्रतिगृह्णीष्व मामकान् ॥ 026c
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् । 027a
स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः । 027c
तस्माद्दानेन तपसा चास्माकं दिवमाव्रज ॥ 027e
ययातिरुवाच 028
यदि धर्मफलं ह्येतच्छोभनं भविता तव । 028a
दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः ॥ 028c
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके । 029a
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥ 029c
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् । 030a
भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः ॥ 030c
दिवसस्याष्टमे भागे मन्दीभवति भास्करे । 031a
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥ 031c
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् । 032a
रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् ॥ 032c
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् । 033a
स कालः कालतो दत्तं नान्यथा काल इष्यते ॥ 033c
वैशम्पायन उवाच 034
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् । 034a
सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात् ॥' 034c
अष्टक उवाच 035
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम् । 035a
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ 035c
ययातिरुवाच 036
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् । 036a
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥ 036c
वैशम्पायन उवाच 037
'अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः । 037a
ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा । 037c
सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह ॥' 037e
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः । 038a
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥ 038c
अष्टक उवाच 039
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा । 039a
कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्यगात्सर्ववेगेन वाहान् ॥ 039c
ययातिरुवाच 040
अददद्याचमानाय यावद्वित्तमविन्दत । 040a
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि वः शिबिः ॥ 040c
दानं तपः सत्यमथाऽपि धर्मोह्रीः श्रीः क्षमा सौम्यमथो विधित्सा । 041a
राजन्नेतान्यप्रमेयाणि राज्ञःशिबेः स्थितान्यप्रतिमस्य बुद्ध्या ॥ 041c
एवं वृत्तो ह्रीनिषेवश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन । 042a
वैशम्पायन उवाच 042
अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकेनेन्द्रकल्पम् ॥ 042c
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य । 043a
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥ 043c
ययातिरुवाच 044
ययातिरस्मि नहुषस्य पुत्रःपूरोः पिता सार्वबौमस्त्विहासम् । 044a
गुह्यं चार्थं मामकेभ्यो ब्रवीमिमातामहोऽहं भवतां प्रकाशम् ॥ 044c
सर्वामिमां पृथिवीं निर्जिगाय दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः । 045a
मेध्यानश्वानेकशतान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति ॥ 045c
अदामहं पृथिवीं ब्राह्मणेभ्यःपूर्णामिमामखिलां वाहनेन । 046a
गोभिः सुवर्णेन धनैश्च मुख्यैस्तदाऽददं गाः शतमर्बुदानि ॥ 046c
सत्येन मे द्यौश्च वसुन्धरा चतथैवाग्निज्वर्लते मानुषेषु । 047a
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥ 047c
यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैव । 048a
सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम् ॥ 048c
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् । 049a
अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम् ॥ 049c
वैशम्पायन उवाच 050
एवं राजा स महात्मा ह्यतीवस्वैर्दौहित्रैस्तारितोऽमित्रसाह । 050a
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ ॥ 050c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥
1-87-2 यत् यत् तपते प्रकाशयति ॥ 1-87-4 शिशुकात् शैशवमारभ्य ॥ 1-87-7 परीप्समानान् याचकान् । नावमंस्था नावमानं कृतवानसि । स्वनवन्तः सङ्गीतादिध्वनियुक्ताः ॥ 1-87-10 गन्तारो मृत्वा प्राप्स्यामः । नरकं भूलोकम् ॥ 1-87-11 यतध्वं कर्तुम् । नाभिजानामि नाङ्गीकरोमि ॥ 1-87-13 प्रकाशन्ते दृश्यन्ते । ज्वलन्तो दीप्यमानाः ॥ 1-87-14 अकृतहोमसमाप्तीनामवभृथायोगात् होमोपि समापित इत्याह । अश्वमेध इति । पुरा स्वयम्भुविहिते कर्तव्यतया विहिते अश्वमेधे अष्टकादिभिः क्रियमाणे ॥ 1-87-41 सौम्यमक्रूरत्वम् । विधित्सा पालनेच्छा ॥ 1-87-42 सत्यमेव श्रेयःसाधनमिति विधातुं पूर्वोक्तप्रश्नोत्तरे अनुवदति । अथाष्टक इत्यादिना ॥ 1-87-44 प्रकाशं प्रागुक्तमपि स्पष्टतरम् ॥ 1-87-45 एवं कृते सति पुण्यभाजः सन्तः देवा भवन्ति ॥ सप्ताशीतितमोऽध्यायः ॥ 87 ॥