अध्यायः 086 स्वर्गाच्च्युतस्य ययातेरष्टकादियज्ञभूमिं प्रत्यागमननिमित्तकथनम् ॥ 1 ॥ अष्टकप्रतर्दनयोर्ययातिना संवादः ॥ 2 ॥ अष्टक उवाच 001
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम् । 001a
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥ 001c
ययातिरुवाच 002
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः । 002a
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥ 002c
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् । 003a
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः ॥ 003c
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः । 004a
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥ 004c
यद्वै नृशंसं तदसत्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः । 005a
अस्वोऽप्यनीशश्च तथैव राजंस्तदार्जवं स समाधिस्तदार्यम् ॥ 005c
अष्टक उवाच 006
केनासि हूतः प्रहितोऽसि राजन्युवा स्रग्वी दर्शनीयः सुवर्चाः । 006a
कुतऋ आयातः कतरस्यां दिशि त्वमुताहोस्वित्पार्थिवं स्थानमस्ति ॥ 006c
ययातिरुवाच 007
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः । 007a
'विद्वांश्चैवं मतिमानार्यबुद्धिर्ममाभवत्कर्मलोक्यं च सर्वम्' । 007c
उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्राह्मणा ये ॥ 007e
सतां सकाशे तु वृतः प्रपातस्ते सङ्गता गुणवन्तश्च सर्वे । 008a
शक्राच्च लब्धो हि वरो मयैषपतिष्यता भूमितलं नरेन्द्र ॥ 008c
अष्टक उवाच । 009
पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र । 009a
यद्यन्तरिक्षे यदि वा दिवि स्थिताःक्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 009c
ययातिरुवाच 010
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च । 010a
तावल्लोका दिवि ते संस्थिता वैतथा विजानीहि नरेन्द्रसिंह ॥ 010c
अष्टक उवाच 011
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति । 011a
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः ॥ 011c
ययातिरुवाच 012
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य । 012a
यथा प्रदेयं सततं द्विजेभ्यस्तथाऽददं पूर्वमहं नरेन्द्र ॥ 012c
नाब्राह्मणः कृपणो जातु जीवेद्या चाप्यस्याऽब्राह्मणी वीरपत्नी । 013a
सोऽहं नैवाकृतपूर्वं चरेयं विधित्समानः किमु तत्र साधुः ॥ 013c
प्रतर्दन उवाच 014
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः । 014a
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 014c
ययातिरुवाच 015
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि । 015a
मधुच्युतो घृतपृक्ता विशोकास्ते नान्तवन्तः प्रतिपालयन्ति ॥ 015c
प्रतर्दन उवाच 016
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु । 016a
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः ॥ 016c
ययातिरुवाच 017
न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् । 017a
दैवादेशादापदं प्राप्य विद्वांश्चरेन्नृशंसं न हि जातु राजा ॥ 017c
धर्म्यं मार्गं यतमानो यशस्यङ्कुर्यान्नृपो धर्ममवेक्षमाणः । 018a
न मद्विधो धर्मबुद्धिः प्रजानन्कुर्यादेवं कृपणं मां यथाऽत्थ ॥ 018c
कुर्यादपूर्वं न कृतं यदन्यैर्विधित्समानः किमु तत्र साधु । 019a
'धर्माधर्मौ सुविनिश्चित्य सम्यक्कार्याकार्येष्वप्रमत्तश्चरेद्यः ॥ 019c
स वै धीमान्सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना । 020a
यदा भवेत्संशयो धर्मकार्ये कामार्थौ वा यत्र विन्दन्ति सम्यक् ॥ 020c
कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः 021a
वैशम्पायन उवाच ' 021
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम् ॥ ॥ 021c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

1-86-1 अनयोः कुटीचकबहूदकयोः ॥ 1-86-2 गृहस्थेषु शरीरस्थेष्विन्द्रियेषु ॥ 1-86-3 दीर्घमायुः प्राप्तः सिद्धिमप्राप्य यो विकृतिं पापं चरेत् । तत्कृत्वा तप्येत यदि सोन्यत्तपः प्रायश्चित्तं चरेत् ॥ 1-86-4 कर्मणां सकाशात् बिभीयात् । सुखं यथेच्छम् ॥ 1-86-5 नृशंसं हिंस्रं यत्कर्म तदसत्यं असत्सम्बन्धि । अनर्थबुद्धिः फलेच्छारहितः । अनीशः ईशत्वबुद्धिरहितः ॥ 1-86-6 केन कतरस्यां दिशि प्रहिहितोसीत्यन्वयः ॥ 1-86-7 विप्रहीणश्च्युतः । उक्त्वा आपृच्छ्य । वो युष्मान् । ब्राह्मणाः ब्रह्मनियुक्ताः ॥ 1-86-12 अब्राह्मणः ब्राह्मणेतरः ब्राह्मणस्यैव भिक्षावृत्तित्वात् । ब्रह्मविद्वेदार्थवेत् । न वर्तते न प्रवर्तते । प्रत्युत पूर्वमददमेव ॥ 1-86-13 कृपणो याचकः । या चाप्यस्य क्षत्रियस्य अब्राह्मणी क्षत्रिया सापि कृपणा नजीवेत् । तद्विधित्समानः कर्तुमिच्छुः तत्र तदा किमु साधुः स्याम् अपितु नैवेत्यर्थः ॥ 1-86-15 प्रत्येकं सप्तसप्ताप्यहानि सेविताः सन्तो नान्तवन्तः । मधुच्युतः सुखस्रवः । घृतपृक्तास्तेजोयुक्ताः । ते त्वां प्रतिपालयन्ति प्रतीक्षन्ते ॥ 1-86-17 नृशंसं निन्द्यं ॥ 1-86-19 अन्यै राजभिर्यत्प्रतिग्रहाख्यं न कृतं तदपूर्वम् ॥ षडशीतितमोऽध्यायः ॥ 86 ॥