अध्यायः 085

ब्रह्मचर्याद्याश्रमविषयकाष्टकययातिप्रश्नप्रतिवचनम् ॥ 1 ॥ अष्टक उवाच । 001
चरन्गृहस्थः कथमेति धर्मान्कथं भिक्षुः कथमाचार्यकर्मा । 001a
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन्सम्प्रति वेदयन्ति ॥ 001c
ययातिरुवाच । 002
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी । 002a
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्याशीलः सिध्यति ब्रह्मचारी ॥ 002c
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च । 003a
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥ 003c
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी । 004a
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः ॥ 004c
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः । 005a
अनोकशायी लघुरल्पप्रसारश्चरन्देशानेकचरः स भिक्षुः ॥ 005c
रात्र्या यया वाऽभिजिताश्च लोकाभवन्ति कामाभिजिताः सुखाश्च । 006a
तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा ॥ 006c
दशैव पूर्वान्दश चापरांश्चज्ञातीनथात्मानमथैकविंशम् । 007a
अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् ॥ 007c
अष्टक उवाच । 008
कतिस्विदेव मुनयः कति मौनानि चाप्युत । 008a
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥ 008c
ययातिरुवाच । 009
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । 090a
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥ 009c
अष्टक उवाच । 010
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः । 010a
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥ 010c
ययातिरुवाच । 011
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । 011a
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥ 011c
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः । 012a
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥ 012c
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् । 013a
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ 013c
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । 014a
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ 014c
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् । 015a
असितं सितकर्माणं कस्तमर्हति नार्चितुम् ॥ 015c
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । 016a
स च लोकमिमं जित्वा लोकं विजयते परम् ॥ 016c
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः । 017a
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥ 017c
आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः । 018a
अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते ॥ 018c
सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा । 019a
विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम् । 019c
क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् ॥ 019e
अष्टक उवाच । 020
नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः । 020a
नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते ॥ 020c
ययातिरुवाच । 021
अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः । 021a
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥ 021c
इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम् ॥ ॥ 022ac

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥ 1-85-1 अस्मिन्धर्मे विषये बहूनि प्राप्तिद्वाराणि वेदयन्ति वैदिकाः ॥ 1-85-4 स्ववीर्यजीवी स्वप्रयत्नलब्धजीविकः ॥ 1-85-5 अनोकशायी यत्र क्वचनशायी । लघुः परिग्रहशून्यः ॥ 1-85-6 तामेव रात्रिं तदैव सर्वपरिग्रहं सन्न्यस्य अरण्यसंस्थो भवितुं प्रयतेत ॥ 1-85-8 सन्न्यासः कतिधेति पृच्छति । कतिस्विदिति ॥ 1-85-9 सन्न्यासं चतुष्प्रकारमभिप्रेत्य प्रथमं कुटीचकबहूदकरूपं भेदद्वयमाह । अरण्येति ॥ 1-85-10 ग्रामारण्ययोः पृष्ठतःकरणं कथमिति पृच्छति । कथमिति ॥ 1-85-11 कृटीचकं विशिनष्टि । न ग्राम्यमिति ॥ 1-85-12 बहूदकं विशिनष्टि । अनग्निरिति ॥ 1-85-14 हंसपरमहंसौ प्रस्तौति । यस्त्विति ॥ 1-85-15 धौतदन्तं शुद्धाहारम् । कृत्तनखं त्यक्तहिंसासाधनम् । सदा स्नातं नित्यं शुद्धचित्तम् । अलङ्कृतं शमादिना । असितं बन्धरहितम् । सितकर्माणं शुद्धकर्माणम् ॥ 1-85-18 आस्यस्य यावदपेक्षितं तावदेव मृगयते नतु परदिनार्थणार्जयतीत्यर्थः ॥ पञ्चाशीतितमोऽध्यायः ॥ 85 ॥