अध्यायः 084 मृतस्य स्वर्गादिभोगानन्तरं पुनर्जननप्रकारकथनम् ॥ 1 ॥ अष्टक उवाच 001
यदाऽवसो नन्दने कामरूपीसंवत्सराणामयुतं शतानाम् । 001a
किं कारणं कार्तयुगप्रधानहित्वा च त्वं वसुधामन्वपद्यः ॥ 001c
ययातिरुवाच 002
ज्ञातिः सुहृत्स्वजनो वा यथेहक्षीणे वित्ते त्यज्यते मानवैर्हि । 002a
तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥ 002c
अष्टक उवाच 003
तस्मिन्कथं क्षीणपुण्या भवन्ति सम्मुह्यते मेऽत्र मनोऽतिमात्रम् । 003a
किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ 003c
ययातिरुवाच 004
इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे । 004a
ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति ॥ 004c
तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म । 005a
आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि ॥ 005c
अष्टक उवाच 006
यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः । 006a
कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि ॥ 006c
ययातिरुवाच 007
ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद्व्यक्तं पृथिव्यामनुसञ्चरन्ति । 007a
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥ 007c
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि । 008a
तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥ 008c
अष्टक उवाच 009
यदेनसस्ते पततस्तुदन्तिभीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः । 009a
कथं भवन्ति कथमाभवन्ति कथम्भूता गर्भभूता भवन्ति ॥ 009c
ययातिरुवाच 010
अस्रं रेतः पुष्पफलानुपृक्तमन्वेति तद्वै पुरुषेण सृष्टम् । 010a
स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र ॥ 010c
वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम् । 011a
चतुष्पदं द्विपदं चाति सर्वमेवम्भूता गर्भभूता भवन्ति ॥ 011c
अष्टक उवाच 012
अन्यद्वपुर्विदधातीह गर्भमुताहोस्वित्स्वेन कायेन याति । 012a
आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात्प्रब्रवीमि ॥ 012c
शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् । 013a
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टःक्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥ 013c
ययातिरुवाच 014
वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्पफलानुपृक्तम् । 014a
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥ 014c
स जायमानो विगृहीतमात्रः सञ्ज्ञामधिष्ठाय ततो मनुष्यः । 015a
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥ 015c
घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम् । 016a
इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥ 016c
अष्टक उवाच 017
यः संस्थितः पुरुषो दह्यते वानिखन्यते वापि निकृष्यते वा । 017a
अभावभूतः स विनाशमेत्यकेनात्मानं चेतयते परस्तात् ॥ 017c
ययातिरुवाच 018
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा । 018a
अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह ॥ 018c
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति । 019a
कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥ 019c
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति । 020a
आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥ 020c
अष्टक उवाच 021
किंस्वित्कृत्वा लभते तात लोकान्मर्त्यः श्रेष्ठांस्तपसा विद्यया च । 021a
तन्मे पृष्टः शंस सर्वं यथावच्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥ 021c
ययातिरुवाच 022
तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा । 022a
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् । 022c
नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ 022e
अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम् । 023a
तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥ 023c
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि । 024a
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥ 024c
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् । 025a
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥ 025c
इति दद्यामिति यज इत्यदीय इति व्रतम् । 026a
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः ॥ 026c
ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम् । 027a
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥ 027c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥ 1-84-1 कार्तयुगप्रधाना कृतयुगे भवाः कार्तयुगा अत्यन्तनिष्पापास्तेषां मुख्यतमेत्यर्थः ॥ 1-84-3 तत्र क्षीणपुण्याः कथं किम्प्रकारा भवन्ति । ततश्च किंविशिष्टाः कीदृशाः सन्तः कस्य धाम स्थानं यान्ति कं लोकं यान्तीत्यर्थः ॥ 1-84-4 तत्र कस्य धामेत्यस्योत्तरम् इमं भौममिति । पुण्ये क्षीणे सति नरकं नरकोपमं बौमं भूसम्बन्धिनम् इमं लोकं प्रति पतन्ति । कथं भवन्तीत्यस्योत्तरं ते कङ्केति । कङ्काश्च गोमायवश्च तेषां बलं सङ्घः तस्याशनार्थे अशनविषयीभूतैतद्देहरक्षणार्थे बहुधा प्रव्रजन्ति पर्यटन्ति ॥ 1-84-5 तस्मादेतत्काम्यकर्म दुष्टं विषिद्धं गर्हणीयम् ॥ 1-84-6 ननु कङ्कादिभक्षितस्य कथं स्वरूपसत्ता कथं वा शरीरान्तरेणाविर्भाव इति देहात्मवादमाश्रित्य शङ्कते । भौमो नरकश्च क इति पृच्छति च । यदा तु तानिति ॥ 1-84-7 ऊर्ध्वं देहात् देहक्षयानन्तरम् । जृम्भमाणात्प्रबुद्धात्कर्मणो हेतोः व्यक्तं स्थूलं शरीरम् अनु अनुप्रविश्य जीवाः सञ्चरन्ति कर्मफलानि भुञ्जते इति यत् तदेव भौमो नरकः । कुतोऽस्य नरकत्वमत आह । नावेक्षन्ते वर्षपूगाननेकान् यस्मादत्र पतिता गतं वयो न बुध्यन्ते कर्मभूमिं प्राप्यापि स्वहिताय न यतन्तेऽत इत्यर्थः । एतेन कङ्कादिभक्षितस्यापि सत्वं देहयोगश्चास्तीत्युक्तम् ॥ 1-84-8 षष्टिं सहस्राण्यशीतिञ्च सहस्राणि परिवत्सराणि व्योम्नि स्वर्गे स्थित्वा पतन्ति । दारादयो भौमा राक्षसाः । पातं भूमिस्थितिं प्रपततः अनुभवतः ॥ 1-84-9 यत् यान् एनसः पापाद्धेतोः पततः स्वर्गाह्यवमानान् ते राक्षसास्तुदन्ति ते पुरुषाः कथं भवन्ति प्रपातभ्रष्टा इव कथं न शीर्यन्ते । कथं वा आभवन्ति इन्द्रियादिमन्तो भवन्ति । कथं वा गर्भत्वं प्राप्नुवन्तीति प्रश्नत्रयम् ॥ 1-84-10 रेतः कर्तृ । अस्रं स्त्रीरजः कर्मभूतम् अन्वेति । तद्द्वयं पुष्पफलादिभावेनानुपृक्तं कललादिरूपं भवति । तत् आहारादिवत्कथं न जीर्यत इत्यत आह । पुरुषेणेति । ईश्वरेणेत्यर्थः । रजः तदुपलक्षितान् धातून् । समुपैति दुःखादीनीति शेषः ॥ 1-84-11 मात्रुदरपर्यन्तं प्रवेशक्रममाह । वनस्पतीति ॥ 1-84-12 नरयोनिमापद्यमानो जीवः स्वेन कायेन जैवेनैव रूपेण गर्भं मातुरुदरं याति उत तत्र प्रवेष्टुमन्यद्वपुर्विदधाति ॥ 1-84-13 शरीरदेहातिसमुच्छ्रयं मातुः शरीरे गर्भदेहस्यातिसमुच्छ्रयं वृद्धिम् । चक्षुःश्रोत्रे इतीन्द्रियमात्रोपलक्षणम् ॥ 1-84-14 देहसमुच्छ्रयक्रममाह । वायुरिति । ऋतौ तत्काले वायुः गर्भयोनिम् अस्रं प्रति रेतः समुत्कर्षति प्रापयति । ततश्च पुष्पफलानुपृक्तं कललादिरूपगर्भं स एव तत्र गर्भाशये क्रमेण संवर्धयति । कथम्भूतः तन्मात्रे वृद्धिमात्रएव कृताधिकारः समर्थः ॥ 1-84-15 स जीवः विगृहीता मात्रा सूक्ष्मशरीरं येन सः ॥ 1-84-16 श्रोत्रादिकं इत्युपहितं सम्बद्धं विद्धि ॥ 1-84-17 देहात्मवादेन पुनः शङ्कते । यः संस्थित इति । परस्तात् आत्मानं केन कारणेन चेतयते जानाति । देहातिरिक्तजीवाभावादिति बावः ॥ 1-84-18 जीवो देहाद्भिन्नः पूर्वदेहं त्यक्त्वा सूक्ष्मदेहेन देहान्तरं प्राप्नोतीत्याह । हित्वेति । पवनाग्रानुसारी आतिवाहिकपवनानुसारी ॥ 1-84-19 कर्मानुसारेण योनिप्राप्तिमाह । पुण्यामिति ॥ 1-84-21 किंस्वित्कृत्वेति सामान्यप्रश्नः । तपसा विद्ययेति विशेषप्रश्नः । चो वार्थे ॥ 1-84-22 पुंसः पुमांसः ॥ 1-84-23 दर्पवता कृतमध्ययनादि न मोक्षोपयोगि नापि स्वर्गदं प्रत्युत भयावहमित्याह द्वाभ्याम् । अधीयान इति ॥ 1-84-25 अतो मानापमानादिद्वन्द्वसहिष्णुर्भवेदित्याह । न मानमान्य इति ॥ 1-84-26 इति दद्यामिति दाम्भिकस्य स्वधर्मप्रकाशनाभिनयः ॥ 1-84-27 मानसमार्गरुद्धं ध्यानविषयीभूतं । वेदयन्ते जानन्ति । तद्वेदनं निःश्रेयः सुखसाधनम् ॥ चतुरशीतितमोऽध्यायः ॥ 84 ॥